Loading...
ऋग्वेद मण्डल - 10 के सूक्त 163 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 163/ मन्त्र 4
    ऋषिः - विवृहा काश्यपः देवता - यक्ष्मघ्नम् छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः

    ऊ॒रुभ्यां॑ ते अष्ठी॒वद्भ्यां॒ पार्ष्णि॑भ्यां॒ प्रप॑दाभ्याम् । यक्ष्मं॒ श्रोणि॑भ्यां॒ भास॑दा॒द्भंस॑सो॒ वि वृ॑हामि ते ॥

    स्वर सहित पद पाठ

    ऊ॒रुऽभ्या॑म् । ते॒ । अ॒ष्ठी॒वत्ऽभ्या॑म् । पार्ष्णि॑ऽभ्याम् । प्रऽप॑दाभ्याम् । यक्ष्म॑म् । श्रोणि॑ऽभ्य्म् । भास॑दात् । भंससः॑ । वि । वृ॒हा॒मि॒ । ते॒ ॥


    स्वर रहित मन्त्र

    ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम् । यक्ष्मं श्रोणिभ्यां भासदाद्भंससो वि वृहामि ते ॥

    स्वर रहित पद पाठ

    ऊरुऽभ्याम् । ते । अष्ठीवत्ऽभ्याम् । पार्ष्णिऽभ्याम् । प्रऽपदाभ्याम् । यक्ष्मम् । श्रोणिऽभ्य्म् । भासदात् । भंससः । वि । वृहामि । ते ॥ १०.१६३.४

    ऋग्वेद - मण्डल » 10; सूक्त » 163; मन्त्र » 4
    अष्टक » 8; अध्याय » 8; वर्ग » 21; मन्त्र » 4

    पदार्थः -
    (ते) तव (ऊरुभ्याम्) जङ्घाभ्याम् (अष्ठीवद्भ्याम्) जानुभ्याम् (पार्ष्णिभ्याम्) पादजङ्घासन्धिस्थानाभ्याम् (प्रपदाभ्याम्) पादाग्राभ्याम् (श्रोणिभ्याम्) जङ्घाकटिसन्धिभ्याम् (भासदात्) जङ्घामध्यस्थानात् (भंससः) गुप्तस्थानात् (यक्ष्मं वि वृहामि) रोगं तव निस्सारयामि ॥४॥

    इस भाष्य को एडिट करें
    Top