ऋग्वेद - मण्डल 10/ सूक्त 163/ मन्त्र 3
ऋषिः - विवृहा काश्यपः
देवता - यक्ष्मघ्नम्
छन्दः - निचृदनुष्टुप्
स्वरः - गान्धारः
आ॒न्त्रेभ्य॑स्ते॒ गुदा॑भ्यो वनि॒ष्ठोर्हृद॑या॒दधि॑ । यक्ष्मं॒ मत॑स्नाभ्यां य॒क्नः प्ला॒शिभ्यो॒ वि वृ॑हामि ते ॥
स्वर सहित पद पाठआ॒न्त्रेभ्यः॑ । ते॒ । गुदा॑भ्यः । व॒नि॒ष्ठोः । हृद॑यात् । अधि॑ । यक्ष्म॑म् । मत॑स्नाभ्याम् । य॒क्नः । प्ला॒शिऽभ्यः॑ । वि । वृ॒हा॒मि॒ । ते॒ ॥
स्वर रहित मन्त्र
आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोर्हृदयादधि । यक्ष्मं मतस्नाभ्यां यक्नः प्लाशिभ्यो वि वृहामि ते ॥
स्वर रहित पद पाठआन्त्रेभ्यः । ते । गुदाभ्यः । वनिष्ठोः । हृदयात् । अधि । यक्ष्मम् । मतस्नाभ्याम् । यक्नः । प्लाशिऽभ्यः । वि । वृहामि । ते ॥ १०.१६३.३
ऋग्वेद - मण्डल » 10; सूक्त » 163; मन्त्र » 3
अष्टक » 8; अध्याय » 8; वर्ग » 21; मन्त्र » 3
अष्टक » 8; अध्याय » 8; वर्ग » 21; मन्त्र » 3
पदार्थः -
(ते) तव (आन्त्रेभ्यः) पाचनस्थानेभ्यः (गुदाभ्यः) गुदस्थानेभ्यो मलस्थानेभ्यः (वनिष्ठोः) स्थूलान्त्रात् (हृदयात्-अधि) हृदयान्तर्गतात् (मतस्नाभ्याम्) वृक्काभ्याम् (यक्नः) यकृतः (प्लाशिभ्यः) प्लीहस्थानेभ्यः (यक्ष्मं विवृहामि) रोगं पृथक् करोमि ॥३॥