Loading...
ऋग्वेद मण्डल - 10 के सूक्त 163 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 163/ मन्त्र 6
    ऋषिः - विवृहा काश्यपः देवता - यक्ष्मघ्नम् छन्दः - अनुष्टुप् स्वरः - गान्धारः

    अङ्गा॑दङ्गा॒ल्लोम्नो॑लोम्नो जा॒तं पर्व॑णिपर्वणि । यक्ष्मं॒ सर्व॑स्मादा॒त्मन॒स्तमि॒दं वि वृ॑हामि ते ॥

    स्वर सहित पद पाठ

    अङ्गा॑त्ऽअङ्गात् । लोम्नः॑ऽलोम्नः । जा॒तम् । पर्व॑णिऽपर्वणि । यक्ष्म॑म् । सर्व॑स्मात् । आ॒त्मनः॑ । तम् । इ॒दम् । वि । वृ॒हा॒मि॒ । ते॒ ॥


    स्वर रहित मन्त्र

    अङ्गादङ्गाल्लोम्नोलोम्नो जातं पर्वणिपर्वणि । यक्ष्मं सर्वस्मादात्मनस्तमिदं वि वृहामि ते ॥

    स्वर रहित पद पाठ

    अङ्गात्ऽअङ्गात् । लोम्नःऽलोम्नः । जातम् । पर्वणिऽपर्वणि । यक्ष्मम् । सर्वस्मात् । आत्मनः । तम् । इदम् । वि । वृहामि । ते ॥ १०.१६३.६

    ऋग्वेद - मण्डल » 10; सूक्त » 163; मन्त्र » 6
    अष्टक » 8; अध्याय » 8; वर्ग » 21; मन्त्र » 6

    पदार्थः -
    (अङ्गात्-अङ्गात्) अङ्गमात्रात् (लोम्नः-लोम्नः) लोमयुक्तस्थानमात्रात् (पर्वणिपर्वणि-जातम्) प्रतिपर्वजातम् (यक्ष्मम्) रोगम् (सर्वस्मात्-आत्मनः) सर्वस्माच्छरीरात् (ते तम्-इदं वि वृहामि) तमिदं रोगं दूरीकरोमि ॥६॥

    इस भाष्य को एडिट करें
    Top