ऋग्वेद - मण्डल 10/ सूक्त 164/ मन्त्र 1
ऋषिः - प्रचेताः
देवता - दुःस्वप्नघ्नम्
छन्दः - निचृदनुष्टुप्
स्वरः - गान्धारः
अपे॑हि मनसस्प॒तेऽप॑ क्राम प॒रश्च॑र । प॒रो निॠ॑त्या॒ आ च॑क्ष्व बहु॒धा जीव॑तो॒ मन॑: ॥
स्वर सहित पद पाठअप॑ । इ॒हि॒ । म॒न॒सः॒ । प॒ते॒ । अप॑ । क्रा॒म॒ । प॒रः । च॒र॒ । प॒रः । निःऽऋ॑त्यै । आ । च॒क्ष्व॒ । ब॒हु॒धा । जीव॑तः । मनः॑ ॥
स्वर रहित मन्त्र
अपेहि मनसस्पतेऽप क्राम परश्चर । परो निॠत्या आ चक्ष्व बहुधा जीवतो मन: ॥
स्वर रहित पद पाठअप । इहि । मनसः । पते । अप । क्राम । परः । चर । परः । निःऽऋत्यै । आ । चक्ष्व । बहुधा । जीवतः । मनः ॥ १०.१६४.१
ऋग्वेद - मण्डल » 10; सूक्त » 164; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 22; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 22; मन्त्र » 1
विषयः - अस्मिन् सूक्ते मानसिकरोगस्य मनसो दुःसङ्कल्पस्य नाशनं कर्तव्यं तदुपायश्च परमात्मोपासनं शिवसङ्कल्पश्चेति वर्ण्यते।
पदार्थः -
(मनस्पते) हे मनसः पातयितः ! क्लेशयितः ! रोग ! (अपेहि) मम शरीरात् खलु दूरं गच्छ (अपक्राम) प्लायस्व-पराङ्मुखः सन् (परः चर) परागच्छ (निर्ऋत्यै) मृत्यवे (परः-आचक्ष्व) परः सन् तिष्ठ नागच्छेत्याचक्ष्व-समन्तात् कथय, यतः (बहुधा मनः-जीवतः) बहुप्रकारेण कृतोपचारं जीवनः जीवनं धारयतो मम मनोऽस्ति नास्मिन् जीवननिराशा ॥१॥