ऋग्वेद - मण्डल 10/ सूक्त 17/ मन्त्र 1
ऋषिः - देवश्रवा यामायनः
देवता - सरण्यूः
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
त्वष्टा॑ दुहि॒त्रे व॑ह॒तुं कृ॑णो॒तीती॒दं विश्वं॒ भुव॑नं॒ समे॑ति । य॒मस्य॑ मा॒ता प॑र्यु॒ह्यमा॑ना म॒हो जा॒या विव॑स्वतो ननाश ॥
स्वर सहित पद पाठत्वष्टा॑ । दु॒हि॒त्रे । व॒ह॒तुम् । कृ॒णो॒ति॒ । इति॑ । इ॒दम् । विश्व॑म् । भुव॑नम् । सम् । ए॒ति॒ । य॒मस्य॑ । मा॒ता । प॒रि॒ऽउ॒ह्यमा॑ना । म॒हः । जा॒या । विव॑वस्वतः । न॒ना॒श॒ ॥
स्वर रहित मन्त्र
त्वष्टा दुहित्रे वहतुं कृणोतीतीदं विश्वं भुवनं समेति । यमस्य माता पर्युह्यमाना महो जाया विवस्वतो ननाश ॥
स्वर रहित पद पाठत्वष्टा । दुहित्रे । वहतुम् । कृणोति । इति । इदम् । विश्वम् । भुवनम् । सम् । एति । यमस्य । माता । परिऽउह्यमाना । महः । जाया । विववस्वतः । ननाश ॥ १०.१७.१
ऋग्वेद - मण्डल » 10; सूक्त » 17; मन्त्र » 1
अष्टक » 7; अध्याय » 6; वर्ग » 23; मन्त्र » 1
अष्टक » 7; अध्याय » 6; वर्ग » 23; मन्त्र » 1
विषयः - अत्र सूक्ते परमात्मसूर्यविद्वद्भिर्विविधा लाभा ग्राह्या इत्युच्यते।
पदार्थः -
(त्वष्टा दुहित्रे वहतुं कृणोति) “त्वष्टा दुहितुर्वहनं करोति” [निरु०१२।१२] त्वष्टा क्षिप्रव्यापनधर्मा दीपनशीलः पदार्थानां व्यक्तीकर्ता वा “त्वष्टा तूर्णमश्नुते त्विषेर्वा स्याद् दीप्तिकर्मणस्तक्षतेर्वा स्यात् करोतिकर्मणः” [निरु०८।१४] सूर्यः, परमात्मा वा दुहितुरुषसः, दोहनयोग्यायाः प्रकृतेर्गौरिव वहनं विवाह्याग्रसारणं वा करोति (विश्वं भुवनं समेति) इमानि च समस्तानि वस्तूनि सम्मुखीभवन्ति दृश्यानि व्यक्तानि वा भवन्ति “इमानि च सर्वाणि भूतान्यभिसमागच्छन्ति” [निरु०१२।१२] (यमस्य माता परि-उह्यमाना) कालस्य निर्मात्री सैवोषः प्रेर्यमाणा यन्तव्यस्य नियन्त्रणीयस्य जगतो वा निर्मात्री सा प्रकृतिः यदाऽग्रे प्रेर्यमाणा विस्तार्यमाणा वाऽऽसीत्, तदा (महः-विवस्वतः-जाया ननाश) महतः सूर्यस्य जायाभूता रात्रिर्नष्टा भवति यदुषसोऽग्रगमनेन सूर्यः प्रकाशते रात्रिर्विनश्यते “महतो विवस्वतः-आदित्यस्य जाया रात्रिरादित्योदयेऽन्तर्धीयते” [निरु०१२।१२] महता विशिष्टतया सम्पादकस्य परमात्मनो जायाभूता रात्रिः प्रलयावस्था-अव्यक्ता प्रकृतिः-नष्टा भवति ॥१॥