ऋग्वेद - मण्डल 10/ सूक्त 16/ मन्त्र 14
शीति॑के॒ शीति॑कावति॒ ह्लादि॑के॒ ह्लादि॑कावति । म॒ण्डू॒क्या॒३॒॑ सु सं ग॑म इ॒मं स्व१॒॑ग्निं ह॑र्षय ॥
स्वर सहित पद पाठशीति॑के । शीति॑काऽवति । ह्लादि॑के । ह्लादि॑काऽवति । म॒ण्डू॒क्या॑ । सु । सम् । ग॒मः॒ । इ॒मम् । सु । अ॒ग्निम् । ह॒र्ष॒य॒ ॥
स्वर रहित मन्त्र
शीतिके शीतिकावति ह्लादिके ह्लादिकावति । मण्डूक्या३ सु सं गम इमं स्व१ग्निं हर्षय ॥
स्वर रहित पद पाठशीतिके । शीतिकाऽवति । ह्लादिके । ह्लादिकाऽवति । मण्डूक्या । सु । सम् । गमः । इमम् । सु । अग्निम् । हर्षय ॥ १०.१६.१४
ऋग्वेद - मण्डल » 10; सूक्त » 16; मन्त्र » 14
अष्टक » 7; अध्याय » 6; वर्ग » 22; मन्त्र » 4
अष्टक » 7; अध्याय » 6; वर्ग » 22; मन्त्र » 4
पदार्थः -
(शीतिके शीतिकावति ह्लादिके ह्लादिकावति मण्डूक्या सु सङ्गमः-इमम्-अग्निं सुहर्षय) हे शीतिके शीतरूपे दूर्वे ! “शीता दूर्वानाम” [धन्वन्तरिनिघण्टौ पर्पटादिवर्गे तथा च वाचस्पत्ये] ‘ततोऽनुकम्पायां कन्’। शीतिकावति ! हे दूर्वावति भूमे ! ह्लादिके-मनःप्रसादिके वल्लकि ! “वल्लकी ह्लादा सुरभिः सुस्रवा च सा” [धन्वन्तरिनिघण्टौ] ह्लादिकावति-हे ह्लादिकावति भूमे ! मण्डूक्या सह सु सम्यक् सङ्गमः-सङ्गच्छस्व तथेममग्निमग्निप्रभावं सुहर्षय-सम्यगलीकं शान्तं कुरु, “हृषु-अलीके” [भ्वादिः] ॥१४॥