साइडबार
ऋग्वेद - मण्डल 10/ सूक्त 170/ मन्त्र 1
वि॒भ्राड्बृ॒हत्पि॑बतु सो॒म्यं मध्वायु॒र्दध॑द्य॒ज्ञप॑ता॒ववि॑ह्रुतम् । वात॑जूतो॒ यो अ॑भि॒रक्ष॑ति॒ त्मना॑ प्र॒जाः पु॑पोष पुरु॒धा वि रा॑जति ॥
स्वर सहित पद पाठवि॒ऽभ्राट् । बृ॒हत् । पि॒ब॒तु॒ । सो॒म्यम् । मधु॑ । आयुः॑ । दध॑त् । य॒ज्ञऽप॑तौ । अवि॑ऽहुतम् । वात॑ऽजूतः । यः । अ॒भि॒ऽरक्ष॑ति । त्मना॑ । प्र॒ऽजाः । पु॒पो॒ष॒ । पु॒रु॒धा । वि । रा॒ज॒ति॒ ॥
स्वर रहित मन्त्र
विभ्राड्बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् । वातजूतो यो अभिरक्षति त्मना प्रजाः पुपोष पुरुधा वि राजति ॥
स्वर रहित पद पाठविऽभ्राट् । बृहत् । पिबतु । सोम्यम् । मधु । आयुः । दधत् । यज्ञऽपतौ । अविऽहुतम् । वातऽजूतः । यः । अभिऽरक्षति । त्मना । प्रऽजाः । पुपोष । पुरुधा । वि । राजति ॥ १०.१७०.१
ऋग्वेद - मण्डल » 10; सूक्त » 170; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 28; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 28; मन्त्र » 1
विषयः - अस्मिन् सूक्ते सूर्यः सर्वप्राणिषु सर्वासु ह्योषधिषु च जीवनं सम्पादयति प्रकाशं प्रयच्छति सर्वलोकान् प्रकाशयति धारयति चेत्येवमादयो विषयाः सन्ति।
पदार्थः -
(विभ्राट्) विशेषेण दीप्यमानः सूर्यः “भ्राजते ज्वलतिकर्मा” [निघ० १।१६] (बृहत् सोम्यं मधु पिबतु) महत् सोम्यं जीवनरसं पातु रक्षतु ‘व्यत्ययेन पिब आदेशः’ (यज्ञपतौ-अविह्रुतम्-आयुः-दधत्) यज्ञपतौ यज्ञस्य कर्त्तरि अविच्छिन्नमायुर्जीवनं धारयन्-धारयितुमित्यर्थः (वातजूतः) वातेन प्रेरितः (त्मना-अभिरक्षति) स्वात्मना स्वस्वरूपेण संसारमभिरक्षति (प्रजाः पुपोष) जडजङ्गमप्रजाः पोषयति (पुरुधा विराजते) बहुधा प्रकाशते तस्य प्रकाशात्मकत्वात् ॥१॥