साइडबार
ऋग्वेद - मण्डल 10/ सूक्त 170/ मन्त्र 2
वि॒भ्राड्बृ॒हत्सुभृ॑तं वाज॒सात॑मं॒ धर्म॑न्दि॒वो ध॒रुणे॑ स॒त्यमर्पि॑तम् । अ॒मि॒त्र॒हा वृ॑त्र॒हा द॑स्यु॒हन्त॑मं॒ ज्योति॑र्जज्ञे असुर॒हा स॑पत्न॒हा ॥
स्वर सहित पद पाठवि॒ऽभ्राट् । बृ॒हत् । सुऽभृ॑तम् । वा॒ज॒ऽसात॑मम् । धर्म॑म् । दि॒वः । ध॒रुणे॑ । स॒त्यम् । अर्पि॑तम् । अ॒मि॒त्र॒ऽहा । वृ॒त्र॒ऽहा । द॒स्यु॒हन्ऽत॑मम् । ज्योतिः॑ । ज॒ज्ञे॒ । अ॒सु॒र॒ऽहा । स॒प॒त्न॒ऽहा ॥
स्वर रहित मन्त्र
विभ्राड्बृहत्सुभृतं वाजसातमं धर्मन्दिवो धरुणे सत्यमर्पितम् । अमित्रहा वृत्रहा दस्युहन्तमं ज्योतिर्जज्ञे असुरहा सपत्नहा ॥
स्वर रहित पद पाठविऽभ्राट् । बृहत् । सुऽभृतम् । वाजऽसातमम् । धर्मम् । दिवः । धरुणे । सत्यम् । अर्पितम् । अमित्रऽहा । वृत्रऽहा । दस्युहन्ऽतमम् । ज्योतिः । जज्ञे । असुरऽहा । सपत्नऽहा ॥ १०.१७०.२
ऋग्वेद - मण्डल » 10; सूक्त » 170; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 28; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 28; मन्त्र » 2
पदार्थः -
(विभ्राट्-ज्योतिः) विशेषेण प्रकाशमानं ज्योतिः (बृहत्-सुभृतम्) महत् सुधृतम् (दस्युहन्तमम्) उपक्षयकर्त्तुर्नाशकम् (सत्यम्) स्थिरम् (दिवः-धर्मन् धरुणे-अर्पितम्) द्युलोकस्य धारके प्रतिष्ठाने “प्रतिष्ठा वै धरुणम्” [श० ७।४।२।५] अर्पितम् (वाजसातमम्) अन्नदातृतममस्ति (अमित्रहा वृत्रहा-असुरहा सपत्नहा जज्ञे) शत्रुनाशको मेघहन्ता, दुष्टप्राणिनाशकः-विरोधिगणनाशकः सूर्यः प्रसिद्धो जातः ॥२॥