Loading...
ऋग्वेद मण्डल - 10 के सूक्त 174 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 174/ मन्त्र 2
    ऋषिः - अभीवर्तः देवता - राज्ञःस्तुतिः छन्दः - विराडनुष्टुप् स्वरः - गान्धारः

    अ॒भि॒वृत्य॑ स॒पत्ना॑न॒भि या नो॒ अरा॑तयः । अ॒भि पृ॑त॒न्यन्तं॑ तिष्ठा॒भि यो न॑ इर॒स्यति॑ ॥

    स्वर सहित पद पाठ

    अ॒भि॒ऽवृत्य॑ । स॒ऽपत्ना॑न् । अ॒भि । याः । नः॒ । अरा॑तयः । अ॒भि । पृ॒त॒न्यन्त॑म् । ति॒ष्ठ॒ । अ॒भि । यः । नः॒ । इ॒र॒स्यति॑ ॥


    स्वर रहित मन्त्र

    अभिवृत्य सपत्नानभि या नो अरातयः । अभि पृतन्यन्तं तिष्ठाभि यो न इरस्यति ॥

    स्वर रहित पद पाठ

    अभिऽवृत्य । सऽपत्नान् । अभि । याः । नः । अरातयः । अभि । पृतन्यन्तम् । तिष्ठ । अभि । यः । नः । इरस्यति ॥ १०.१७४.२

    ऋग्वेद - मण्डल » 10; सूक्त » 174; मन्त्र » 2
    अष्टक » 8; अध्याय » 8; वर्ग » 32; मन्त्र » 2

    पदार्थः -
    (सपत्नान्) शत्रून् (अभिवृत्य) आक्रम्य (नः याः-अरातयः) अस्माकं या खलु अदानवृत्तिकाः, अपि तु हरणकर्त्र्यः परसेनाः (अभि०) अभिवृत्य-आक्रम्य (पृतन्यन्तम्) संङ्ग्रामं कुर्वन्तं गणम् (अभि०) अभिवृत्य आक्रम्य (यः-नः) योऽस्मान् (इरस्यति) ईर्ष्यति “इरस् ईर्ष्यायाम्” [कण्ड्वादि०] तम् (अभितिष्ठं) स्वाधीनी कुरु ॥२॥

    इस भाष्य को एडिट करें
    Top