Loading...
ऋग्वेद मण्डल - 10 के सूक्त 180 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 180/ मन्त्र 1
    ऋषिः - जयः देवता - इन्द्र: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    प्र स॑साहिषे पुरुहूत॒ शत्रू॒ञ्ज्येष्ठ॑स्ते॒ शुष्म॑ इ॒ह रा॒तिर॑स्तु । इन्द्रा भ॑र॒ दक्षि॑णेना॒ वसू॑नि॒ पति॒: सिन्धू॑नामसि रे॒वती॑नाम् ॥

    स्वर सहित पद पाठ

    प्र । स॒स॒हि॒षे॒ । पु॒रु॒ऽहू॒त॒ । शत्रू॑न् । ज्येष्ठः॑ । ते॒ । शुष्मः॑ । इ॒ह । रा॒तिः । अ॒स्तु॒ । इन्द्र॑ । आ । भ॒र॒ । दक्षि॑णेन । वसू॑नि । पतिः॑ । सिन्धू॑नाम् । अ॒सि॒ । रे॒वती॑नाम् ॥


    स्वर रहित मन्त्र

    प्र ससाहिषे पुरुहूत शत्रूञ्ज्येष्ठस्ते शुष्म इह रातिरस्तु । इन्द्रा भर दक्षिणेना वसूनि पति: सिन्धूनामसि रेवतीनाम् ॥

    स्वर रहित पद पाठ

    प्र । ससहिषे । पुरुऽहूत । शत्रून् । ज्येष्ठः । ते । शुष्मः । इह । रातिः । अस्तु । इन्द्र । आ । भर । दक्षिणेन । वसूनि । पतिः । सिन्धूनाम् । असि । रेवतीनाम् ॥ १०.१८०.१

    ऋग्वेद - मण्डल » 10; सूक्त » 180; मन्त्र » 1
    अष्टक » 8; अध्याय » 8; वर्ग » 38; मन्त्र » 1

    पदार्थः -
    (पुरुहूत-इन्द्र) हे बहुप्रकारेण आह्वातव्य राजन् ! (शत्रून् प्रससाहिषे) वैरिणः प्रकर्षेण सहसेऽभिभवसि “बहुलं छन्दसि” [अष्टा० १।४।७६] इति श्लु लेटि (ते शुष्मः-ज्येष्ठः) ते बलं ज्येष्ठं महदस्ति (इह रातिः-अस्तु) अस्मिन्नवसरेऽस्मभ्यं बलदानं भवतु तथा (दक्षिणेन वसूनि-आभर) वृद्धिकरेण हस्तेन धनानि-अस्मभ्यमापूरय (सिन्धूनां-रेवतीनां पतिः-असि) स्यन्दमानानां नदीनामिव लाभदायिनीनां प्रशस्तशोभाधनवतीनां प्रजानाम् “रेवतीः-रविशोभा-धनं प्रशस्तं विद्यते यासु ताः प्रजाः” [ऋ० १।३०।१३ दयानन्दः] पतिरसि ॥१॥

    इस भाष्य को एडिट करें
    Top