Loading...
ऋग्वेद मण्डल - 10 के सूक्त 181 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 181/ मन्त्र 2
    ऋषिः - सप्रथो भारद्वाजः देवता - विश्वेदेवा: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    अवि॑न्द॒न्ते अति॑हितं॒ यदासी॑द्य॒ज्ञस्य॒ धाम॑ पर॒मं गुहा॒ यत् । धा॒तुर्द्युता॑नात्सवि॒तुश्च॒ विष्णो॑र्भ॒रद्वा॑जो बृ॒हदा च॑क्रे अ॒ग्नेः ॥

    स्वर सहित पद पाठ

    अवि॑न्दन् । ते । अति॑ऽहितम् । यत् । आसी॑त् । य॒ज्ञस्य॑ । धाम॑ । प॒र॒मम् । गुहा॑ । यत् । धा॒तुः । द्युता॑नात् । स॒वि॒तुः । च॒ । विष्णोः॑ । भ॒रत्ऽवा॑जः । बृ॒हत् । आ । च॒क्रे॒ । अ॒ग्नेः ॥


    स्वर रहित मन्त्र

    अविन्दन्ते अतिहितं यदासीद्यज्ञस्य धाम परमं गुहा यत् । धातुर्द्युतानात्सवितुश्च विष्णोर्भरद्वाजो बृहदा चक्रे अग्नेः ॥

    स्वर रहित पद पाठ

    अविन्दन् । ते । अतिऽहितम् । यत् । आसीत् । यज्ञस्य । धाम । परमम् । गुहा । यत् । धातुः । द्युतानात् । सवितुः । च । विष्णोः । भरत्ऽवाजः । बृहत् । आ । चक्रे । अग्नेः ॥ १०.१८१.२

    ऋग्वेद - मण्डल » 10; सूक्त » 181; मन्त्र » 2
    अष्टक » 8; अध्याय » 8; वर्ग » 39; मन्त्र » 2

    पदार्थः -
    (ते) धात्रादयोऽग्न्यादयः-ऋषयः (अविन्दन्) वेदज्ञानं विन्दन्ति लभन्ते (अतिहितम्-आसीत्) गुप्तं यदासीत् (यज्ञस्य परमं धाम यत् गुहा बृहत्) यज्ञस्य-अध्यात्मयज्ञस्य परमं धाम मनः-गुहाहितम् “मनो वै बृहत्” [ऐ० ४।४।२८] (अग्नेः) अग्निः विभक्तिव्यत्ययः-अग्रणी विद्वान् ब्रह्मा (भरद्वाजः) यः प्रजा बिभर्ति सः “एषः उ एव…प्रजा वै वाजस्ता एष बिभर्ति तस्माद् भरद्वाजः” [ऐ० आ० २।२।३] (आचक्रे) समन्ताद्-गृहीतवान् (धातुः-द्युतानात् सवितुः-विष्णोः) एषां सकाशात् ॥२॥

    इस भाष्य को एडिट करें
    Top