Loading...
ऋग्वेद मण्डल - 10 के सूक्त 185 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 185/ मन्त्र 1
    ऋषिः - सत्यधृतिर्वारुणिः देवता - अदितिः (स्वस्तययनम्) छन्दः - विराड्गायत्री स्वरः - षड्जः

    महि॑ त्री॒णामवो॑ऽस्तु द्यु॒क्षं मि॒त्रस्या॑र्य॒म्णः । दु॒रा॒धर्षं॒ वरु॑णस्य ॥

    स्वर सहित पद पाठ

    महि॑ । त्री॒णाम् । अवः॑ । अ॒स्तु॒ । द्यु॒क्षम् । मि॒त्रस्य॑ । अ॒र्य॒म्णः । दुः॒ऽआ॒धर्ष॑म् । वरु॑णस्य ॥


    स्वर रहित मन्त्र

    महि त्रीणामवोऽस्तु द्युक्षं मित्रस्यार्यम्णः । दुराधर्षं वरुणस्य ॥

    स्वर रहित पद पाठ

    महि । त्रीणाम् । अवः । अस्तु । द्युक्षम् । मित्रस्य । अर्यम्णः । दुःऽआधर्षम् । वरुणस्य ॥ १०.१८५.१

    ऋग्वेद - मण्डल » 10; सूक्त » 185; मन्त्र » 1
    अष्टक » 8; अध्याय » 8; वर्ग » 43; मन्त्र » 1

    पदार्थः -
    (त्रीणां महि द्युक्षं दुराधर्षम्-अवः-अस्तु) त्रयाणां महद् दीप्तं दुर्निवार्यं रक्षणं भवतु, ‘केषां त्रयाणामित्युच्यते’ (मित्रस्य वरुणस्य-अर्यम्णः) प्रेरकस्य प्राणस्य श्वासस्य, अध्यापकस्य वरुणस्य वरयितुः-अपानस्य प्रश्वासस्य-उपदेशकस्य तथा-अर्यम्णः-हृदयस्थप्राणस्य विद्यासूर्यस्य च ॥१॥

    इस भाष्य को एडिट करें
    Top