साइडबार
ऋग्वेद - मण्डल 10/ सूक्त 185/ मन्त्र 2
ऋषिः - सत्यधृतिर्वारुणिः
देवता - अदितिः (स्वस्तययनम्)
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
न॒हि तेषा॑म॒मा च॒न नाध्व॑सु वार॒णेषु॑ । ईशे॑ रि॒पुर॒घशं॑सः ॥
स्वर सहित पद पाठन॒हि । तेषा॑म् । अ॒मा । च॒न । न । अध्व॑ऽसु । वा॒र॒णेषु॑ । ईशे॑ । रि॒पुः । अ॒घऽशं॑सः ॥
स्वर रहित मन्त्र
नहि तेषाममा चन नाध्वसु वारणेषु । ईशे रिपुरघशंसः ॥
स्वर रहित पद पाठनहि । तेषाम् । अमा । चन । न । अध्वऽसु । वारणेषु । ईशे । रिपुः । अघऽशंसः ॥ १०.१८५.२
ऋग्वेद - मण्डल » 10; सूक्त » 185; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 43; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 43; मन्त्र » 2
पदार्थः -
(तेषाम्-अमा चन नहि) तेषां मित्रादीनां गृहे “अमा गृहनाम” [निघ० ३।४] तेषां सम्पर्के वा नहि (अध्वसु वारणेषु न) मार्गेषु-वारणेषु वारितप्रदेशेषु न (अघशंसः-रिपुः-ईशे) पापशंसकः-अहितचिन्तकः शत्रुरस्मान्-ईशितुं समर्थो भवितुमर्हति ॥२॥