साइडबार
ऋग्वेद - मण्डल 10/ सूक्त 189/ मन्त्र 1
ऋषिः - सार्पराज्ञी
देवता - सार्पराज्ञी सूर्यो वा
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
आयं गौः पृश्नि॑रक्रमी॒दस॑दन्मा॒तरं॑ पु॒रः । पि॒तरं॑ च प्र॒यन्त्स्व॑: ॥
स्वर सहित पद पाठआ । अ॒यम् । गौः । पृश्निः॑ । अ॒क्र॒मी॒त् । अस॑दत् । मा॒तर॑म् । पु॒रः । पि॒तर॑म् । च॒ । प्र॒ऽयन् । स्वरिति॑ स्वः॑ ॥
स्वर रहित मन्त्र
आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः । पितरं च प्रयन्त्स्व: ॥
स्वर रहित पद पाठआ । अयम् । गौः । पृश्निः । अक्रमीत् । असदत् । मातरम् । पुरः । पितरम् । च । प्रऽयन् । स्व१रिति स्वः ॥ १०.१८९.१
ऋग्वेद - मण्डल » 10; सूक्त » 189; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 47; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 47; मन्त्र » 1
विषयः - अत्र सूक्ते पृथिवी पूर्वस्यां दिशि गतिं करोति सूर्यस्य परितश्च भ्रमति, सूर्यस्य ज्योतिरुदयास्तयोर्मध्ये द्यावापृथिव्यौ तपति, इत्यादि विषया वर्ण्यन्ते।
पदार्थः -
(अयं गौः) एष पृथिवीलोकः “गौः-पृथिवीनाम” [निघ० १।१] (पुरः आक्रमीत्) पूर्वस्यां दिशि-पूर्वाभिमुखमाक्रामति (पितरं च स्वः प्रयन्) पितरं पितृवत्सूर्यम् “स्वः-आदित्यो भवति” [निरु० २।१४] परितो गच्छन् (मातरं पृश्निम्-असदत्) मातरमन्तरिक्षं “मातरि अन्तरिक्षे” [निरु० ७।२७] “पृश्निः-अन्तरिक्षम्’ [ऋ० ४।३।२० दयानन्दः] सीदति ॥१॥