Loading...
ऋग्वेद मण्डल - 10 के सूक्त 189 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 189/ मन्त्र 2
    ऋषिः - सार्पराज्ञी देवता - सार्पराज्ञी सूर्यो वा छन्दः - विराड्गायत्री स्वरः - षड्जः

    अ॒न्तश्च॑रति रोच॒नास्य प्रा॒णाद॑पान॒ती । व्य॑ख्यन्महि॒षो दिव॑म् ॥

    स्वर सहित पद पाठ

    अ॒न्तरिति॑ । च॒र॒ति॒ । रो॒च॒ना । अ॒स्य । प्रा॒णात् । अ॒प॒ऽअ॒न॒ती । वि । अ॒ख्य॒त् । म॒हि॒षः । दिव॑म् ॥


    स्वर रहित मन्त्र

    अन्तश्चरति रोचनास्य प्राणादपानती । व्यख्यन्महिषो दिवम् ॥

    स्वर रहित पद पाठ

    अन्तरिति । चरति । रोचना । अस्य । प्राणात् । अपऽअनती । वि । अख्यत् । महिषः । दिवम् ॥ १०.१८९.२

    ऋग्वेद - मण्डल » 10; सूक्त » 189; मन्त्र » 2
    अष्टक » 8; अध्याय » 8; वर्ग » 47; मन्त्र » 2

    पदार्थः -
    (अस्य रोचना) अस्य सूर्यस्य दीप्तिः (प्राणात्-अपानती) प्राणात्-उदयनात्-अस्तमयं गच्छन्ती (अन्तः-चरति) उभयोरन्तर्मध्ये यद्वा द्यावापृथिव्योर्मध्ये चरति (महिषः-दिवं व्यख्यत्) महान् सूर्यः-द्युलोकं प्रति प्रसिद्धो जातः ॥२॥

    इस भाष्य को एडिट करें
    Top