Loading...
ऋग्वेद मण्डल - 10 के सूक्त 21 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 21/ मन्त्र 1
    ऋषिः - विमद ऐन्द्रः प्राजापत्यो वा वसुकृद्वा वासुक्रः देवता - अग्निः छन्दः - निचृत्पङ्क्ति स्वरः - पञ्चमः

    आग्निं न स्ववृ॑क्तिभि॒र्होता॑रं त्वा वृणीमहे । य॒ज्ञाय॑ स्ती॒र्णब॑र्हिषे॒ वि वो॒ मदे॑ शी॒रं पा॑व॒कशो॑चिषं॒ विव॑क्षसे ॥

    स्वर सहित पद पाठ

    आ । अ॒ग्निम् । न । स्ववृ॑क्तिऽभिः । होता॑रम् । त्वा॒ । वृ॒णी॒म॒हे॒ । य॒ज्ञाय॑ । स्ती॒र्णऽब॑र्हिषे । वि । वः॒ । मदे॑ । शी॒रम् । पा॒व॒कऽशो॑चिषम् । विव॑क्षसे ॥


    स्वर रहित मन्त्र

    आग्निं न स्ववृक्तिभिर्होतारं त्वा वृणीमहे । यज्ञाय स्तीर्णबर्हिषे वि वो मदे शीरं पावकशोचिषं विवक्षसे ॥

    स्वर रहित पद पाठ

    आ । अग्निम् । न । स्ववृक्तिऽभिः । होतारम् । त्वा । वृणीमहे । यज्ञाय । स्तीर्णऽबर्हिषे । वि । वः । मदे । शीरम् । पावकऽशोचिषम् । विवक्षसे ॥ १०.२१.१

    ऋग्वेद - मण्डल » 10; सूक्त » 21; मन्त्र » 1
    अष्टक » 7; अध्याय » 7; वर्ग » 4; मन्त्र » 1

    पदार्थः -
    (यज्ञाय-अग्निं न) यथा होमयज्ञायाग्निं वृणीमहे तथा (त्वा पावकशोचिषं क्षीरम्) त्वां पवित्रदीप्तिमन्तं सर्वत्र शायिनं सर्वत्रव्यापकं “शीरं पावकशोचिषम्” पावकदीप्तिम्। अनुशायिनमिति वाशिनमिति वा” [निरु० ४।१४] (होतारम्) अध्यात्मयज्ञसम्पादयितारमग्रणायकं परमात्मानम् (स्ववृक्तिभिः) आत्मस्तुतिभिः “सुवृक्तिभिः शोभनाभिः स्तुतिभिः” [निरु० २।२४] (स्तीर्णबर्हिषे वृणीमहे) आच्छादितान्तरिक्षं हृदयाकाशो येन तथा भूतायाध्यात्मयज्ञाय “बर्हिः-अन्तरिक्षनाम” [निघ० १।३] (विवक्षसे वः-मदे वि) अथ महति हर्षनिमित्ते त्वां ‘वः’ व्यत्ययेन बहुवचनं विशिष्टं वृणुयाम “विवक्षसे महन्नाम” [निघ० ३।३] ॥१॥

    इस भाष्य को एडिट करें
    Top