ऋग्वेद - मण्डल 10/ सूक्त 21/ मन्त्र 2
ऋषिः - विमद ऐन्द्रः प्राजापत्यो वा वसुकृद्वा वासुक्रः
देवता - अग्निः
छन्दः - पादनिचृत्पङ्क्ति
स्वरः - पञ्चमः
त्वामु॒ ते स्वा॒भुव॑: शु॒म्भन्त्यश्व॑राधसः । वेति॒ त्वामु॑प॒सेच॑नी॒ वि वो॒ मद॒ ऋजी॑तिरग्न॒ आहु॑ति॒र्विव॑क्षसे ॥
स्वर सहित पद पाठत्वाम् । ऊँ॒ इति॑ । ते । सु॒ऽआ॒भुवः॑ । शु॒म्भन्ति॑ । अश्व॑ऽराधसः । वेति॑ । त्वाम् । उ॒प॒ऽसेच॑नी । वि । वः॒ । मदे॑ । ऋजी॑तिः । अ॒ग्ने॒ । आऽहु॑तिः । विव॑क्षसे ॥
स्वर रहित मन्त्र
त्वामु ते स्वाभुव: शुम्भन्त्यश्वराधसः । वेति त्वामुपसेचनी वि वो मद ऋजीतिरग्न आहुतिर्विवक्षसे ॥
स्वर रहित पद पाठत्वाम् । ऊँ इति । ते । सुऽआभुवः । शुम्भन्ति । अश्वऽराधसः । वेति । त्वाम् । उपऽसेचनी । वि । वः । मदे । ऋजीतिः । अग्ने । आऽहुतिः । विवक्षसे ॥ १०.२१.२
ऋग्वेद - मण्डल » 10; सूक्त » 21; मन्त्र » 2
अष्टक » 7; अध्याय » 7; वर्ग » 4; मन्त्र » 2
अष्टक » 7; अध्याय » 7; वर्ग » 4; मन्त्र » 2
पदार्थः -
(अग्ने) हे अग्रणायक परमात्मन् ! (ते) ते खलु (अश्वराधसः) इन्द्रियरूपाश्वानां साधका जितेन्द्रियाः संयमिनः “इन्द्रियाणि हयानाहुः” [कठो० १।३।४] (स्वाभुवः) सुशोभनं मनोऽन्तःकरणं समन्ताद् भावयन्ति शिवसङ्कल्पिनः-उपासकजनाः (त्वाम्-एव) त्वामवश्यम् (शुम्भन्ति) भाषन्ते-स्तुवन्ति “शुम्भ भाषणे” [भ्वादिः] (ऋजीतिः-आहुतिः-उपसेचनी त्वां वेति) तेषां सरलगामिनी समर्प्यमाणोपाहुतिः-उपस्तुतिस्त्वां प्राप्नोति (विवक्षसे) यया त्वं महत्त्वं प्राप्नोषि (वः मदे वि) त्वां हर्षनिमित्ते विशिष्टं वृणुयाम ॥२॥