ऋग्वेद - मण्डल 10/ सूक्त 29/ मन्त्र 1
वने॒ न वा॒ यो न्य॑धायि चा॒कञ्छुचि॑र्वां॒ स्तोमो॑ भुरणावजीगः । यस्येदिन्द्र॑: पुरु॒दिने॑षु॒ होता॑ नृ॒णां नर्यो॒ नृत॑मः क्ष॒पावा॑न् ॥
स्वर सहित पद पाठवने॑ । न । वा॒ । यः । नि । अ॒धा॒यि॒ । चा॒कन् । शुचिः॑ । वा॒म् । स्तोमः॑ । भु॒र॒णौ॒ । अ॒जी॒ग॒रिति॑ । यस्य॑ । इत् । इन्द्रः॑ । पु॒रु॒ऽदिने॑षु । होता॑ । नृ॒णाम् । नर्यः॑ । नृऽत॑मः । क्ष॒पाऽवा॑न् ॥
स्वर रहित मन्त्र
वने न वा यो न्यधायि चाकञ्छुचिर्वां स्तोमो भुरणावजीगः । यस्येदिन्द्र: पुरुदिनेषु होता नृणां नर्यो नृतमः क्षपावान् ॥
स्वर रहित पद पाठवने । न । वा । यः । नि । अधायि । चाकन् । शुचिः । वाम् । स्तोमः । भुरणौ । अजीगरिति । यस्य । इत् । इन्द्रः । पुरुऽदिनेषु । होता । नृणाम् । नर्यः । नृऽतमः । क्षपाऽवान् ॥ १०.२९.१
ऋग्वेद - मण्डल » 10; सूक्त » 29; मन्त्र » 1
अष्टक » 7; अध्याय » 7; वर्ग » 22; मन्त्र » 1
अष्टक » 7; अध्याय » 7; वर्ग » 22; मन्त्र » 1
विषयः - अस्मिन् सूक्त इन्द्रशब्देन परमात्मा वर्ण्यते तद्द्वारा वेदज्ञानप्रकाशः सृष्टिरचनं चोच्यते प्रसङ्गत उपासनाप्रकाराश्चापि वर्ण्यन्ते।
पदार्थः -
(वने न नि-अधायि वायः) वृक्षाणां समूहे वने वृक्षाणां मध्ये निधृतो वेः पक्षिणः शिशुः (भुरणौ चाकन्) भरणकर्त्तारौ स्वमातापितरौ पश्यन् “चाकन् चायन्” [निरु० ६।२८] “चायृ पूजानिशामनयोः” [भ्वादि०] यद्वा कामयमानः “चाकन् कामयमानो वा” [निरु० ६।२८] अथवा गच्छन् “कनी दीप्तिगतिकान्तिषु” [भ्वादि०] यद्वा शैशवसौन्दर्येण दीप्यमानः यथा भवति तथा (शुचिः स्तोमः-अजीगः) पवित्रकारकः स्तुतिसमूहो मन्त्रगणो वेदः खल्वग्निप्रभृतिषु परमर्षिषु प्रसिद्धः, भरणकर्त्तारावध्यापकाध्येतारौ ! (वाम्) युवयोरर्थे प्राप्तः (यस्य-इन्द्रः क्षपावान्) यस्य मन्त्रगणस्य वेदस्य प्रकाशयिता परमात्मा रात्रिमान् प्रलयवान् प्रलयस्वामी प्रलयेऽपि वर्त्तमानः प्रलयानन्तरम् “क्षपा रात्रिनाम” [निघ० १।८] (पुरुदिनेषु होता) बहुदिनेषु बहूनि दिनानि यावदाप्रलयं दाता भवति (नृणां नृतमः-नर्यः) समस्तजीवननेतॄणामत्यन्त नेता नरेभ्यो मनुष्येभ्यो हितकरः कल्याणकर उपासनीयः ॥१॥