ऋग्वेद - मण्डल 10/ सूक्त 29/ मन्त्र 2
प्र ते॑ अ॒स्या उ॒षस॒: प्राप॑रस्या नृ॒तौ स्या॑म॒ नृत॑मस्य नृ॒णाम् । अनु॑ त्रि॒शोक॑: श॒तमाव॑ह॒न्नॄन्कुत्से॑न॒ रथो॒ यो अस॑त्सस॒वान् ॥
स्वर सहित पद पाठप्र । ते॒ । अ॒स्याः । उ॒षसः॑ । प्र । अप॑रस्याः । नृ॒तौ । स्या॒म॒ । नृऽत॑मस्य । नृ॒णाम् । अनु॑ । त्रि॒ऽशोकः॑ । श॒तम् । आ । अ॒व॒ह॒न् । नॄन् । कुत्से॑न । रथः॑ । यः । अस॑त् । स॒स॒ऽवान् ॥
स्वर रहित मन्त्र
प्र ते अस्या उषस: प्रापरस्या नृतौ स्याम नृतमस्य नृणाम् । अनु त्रिशोक: शतमावहन्नॄन्कुत्सेन रथो यो असत्ससवान् ॥
स्वर रहित पद पाठप्र । ते । अस्याः । उषसः । प्र । अपरस्याः । नृतौ । स्याम । नृऽतमस्य । नृणाम् । अनु । त्रिऽशोकः । शतम् । आ । अवहन् । नॄन् । कुत्सेन । रथः । यः । असत् । ससऽवान् ॥ १०.२९.२
ऋग्वेद - मण्डल » 10; सूक्त » 29; मन्त्र » 2
अष्टक » 7; अध्याय » 7; वर्ग » 22; मन्त्र » 2
अष्टक » 7; अध्याय » 7; वर्ग » 22; मन्त्र » 2
पदार्थः -
(नृणां नृतमस्य ते अस्याः-उषसः) हे ऐश्वर्यवन् परमात्मन् ! नायकानामप्यत्यन्तनायकस्य तवास्याः खलूषसो वेदज्ञानदीप्तेः सम्प्रति प्राप्तायाः (नृतौ प्र स्याम) नयने नीत्यां प्रगतिशीलाः स्याम (अपरस्याः प्र) आगामिनि दिने श्वोऽपि वेदज्ञानदीप्तेर्नयने मार्गे प्रगतिशीला भवेम (त्रिशोकः) तिसृषु स्तुतिप्रार्थनोपासनासु यद्वा तिसृषु विद्यासु वर्त्तमानो ज्ञानप्रकाशो यस्य तथाभूतो महाविद्वान् “शोचति ज्वलतिकर्मा” [निघ० १।१६] (शतं नॄन् अनु आवहत्) बहून् नायकान् जनान् तव ज्ञानं वेदमवाप्य स्वमनु वहति पश्चाच्चालयति शिष्यान् सम्पादयति (यः कुत्सेन ससवान्) यो हि तव कुत्सः स्तुतिकर्त्ता “कुत्सः कर्त्ता स्तुतीनाम्” [निरु० ३।१२] ज्ञानस्य सम्भाजकः “ससवान् सम्भाजकः” [ऋ० ३।२२।१ दयानन्दः] (रथः असत्) सर्वेषां रमणाश्रयो भवति ॥२॥