ऋग्वेद - मण्डल 10/ सूक्त 29/ मन्त्र 5
प्रेर॑य॒ सूरो॒ अर्थं॒ न पा॒रं ये अ॑स्य॒ कामं॑ जनि॒धा इ॑व॒ ग्मन् । गिर॑श्च॒ ये ते॑ तुविजात पू॒र्वीर्नर॑ इन्द्र प्रति॒शिक्ष॒न्त्यन्नै॑: ॥
स्वर सहित पद पाठप्र । ई॒र॒य॒ । सूरः॑ । अर्थ॑म् । न । पा॒रम् । ये । अ॒स्य॒ । काम॑म् । ज॒नि॒धाःऽइ॑व । ग्मन् । गिरः॑ । च॒ । ये । ते॒ । तु॒वि॒ऽजा॒त॒ । पू॒र्वीः । नरः॑ । इ॒न्द्र॒ । प्र॒ति॒ऽशिक्ष॑न्ति । अन्नैः॑ ॥
स्वर रहित मन्त्र
प्रेरय सूरो अर्थं न पारं ये अस्य कामं जनिधा इव ग्मन् । गिरश्च ये ते तुविजात पूर्वीर्नर इन्द्र प्रतिशिक्षन्त्यन्नै: ॥
स्वर रहित पद पाठप्र । ईरय । सूरः । अर्थम् । न । पारम् । ये । अस्य । कामम् । जनिधाःऽइव । ग्मन् । गिरः । च । ये । ते । तुविऽजात । पूर्वीः । नरः । इन्द्र । प्रतिऽशिक्षन्ति । अन्नैः ॥ १०.२९.५
ऋग्वेद - मण्डल » 10; सूक्त » 29; मन्त्र » 5
अष्टक » 7; अध्याय » 7; वर्ग » 22; मन्त्र » 5
अष्टक » 7; अध्याय » 7; वर्ग » 22; मन्त्र » 5
पदार्थः -
(तुविजात-इन्द्र) बहुगुणप्रसिद्ध-ऐश्वर्यवन् परमात्मन् (सूरः न-अर्थं पारं प्रेरय) सूर्यो यथा रश्मिं प्रेरयति तथा त्वमर्थमर्थवन्तमर्थिनं मुमुक्षुं पारं मोक्षं प्रति प्रेरय (ये) ये मुमुक्षवः (अस्य कामं जनिधाः-इव ग्मन्) अस्य मोक्षस्य कामं धारयन्तो भार्या धारयन्तो गृहस्था इव गृहस्थाश्रमं प्राप्नुवन्ति तद्वदुपासकाः सन्ति (च) अथ च (गिरः पूर्वीः) स्तुतीः श्रेष्ठाः (ते) तुभ्यम् (ये नरः) ये मुमुक्षवो जनाः (अन्नैः प्रतिशिक्षन्ति) उपासनारसान् “द्वितीयार्थे तृतीया व्यत्ययेन” प्रयच्छन्ति ॥५॥