Loading...
ऋग्वेद मण्डल - 10 के सूक्त 29 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 29/ मन्त्र 6
    ऋषिः - वसुक्रः देवता - इन्द्र: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    मात्रे॒ नु ते॒ सुमि॑ते इन्द्र पू॒र्वी द्यौर्म॒ज्मना॑ पृथि॒वी काव्ये॑न । वरा॑य ते घृ॒तव॑न्तः सु॒तास॒: स्वाद्म॑न्भवन्तु पी॒तये॒ मधू॑नि ॥

    स्वर सहित पद पाठ

    मात्रे॒ इति॑ । नु । ते॒ । सुमि॑ते॒ इति॒ सुऽमि॑ते । इ॒न्द्र॒ । पू॒र्वी इति॑ । द्यौः । म॒ज्मना॑ । पृ॒थि॒वी । काव्ये॑न । वरा॑य । ते॒ । घृ॒तऽव॑न्तः । सु॒तासः॑ । स्वाद्म॑न् । भ॒व॒न्तु॒ । पी॒तये॑ । मधू॑नि ॥


    स्वर रहित मन्त्र

    मात्रे नु ते सुमिते इन्द्र पूर्वी द्यौर्मज्मना पृथिवी काव्येन । वराय ते घृतवन्तः सुतास: स्वाद्मन्भवन्तु पीतये मधूनि ॥

    स्वर रहित पद पाठ

    मात्रे इति । नु । ते । सुमिते इति सुऽमिते । इन्द्र । पूर्वी इति । द्यौः । मज्मना । पृथिवी । काव्येन । वराय । ते । घृतऽवन्तः । सुतासः । स्वाद्मन् । भवन्तु । पीतये । मधूनि ॥ १०.२९.६

    ऋग्वेद - मण्डल » 10; सूक्त » 29; मन्त्र » 6
    अष्टक » 7; अध्याय » 7; वर्ग » 23; मन्त्र » 1

    पदार्थः -
    (इन्द्र) हे ऐश्वर्यवन् परमात्मन् ! (ते) तव (मज्मना काव्येन) बलवता कलाप्रकारेण रचिते (पूर्वी) पूर्व्यौ पूरयित्र्यौ श्रेष्ठे वा (द्यौः पृथिवी) द्यौश्च पृथिवी च (मात्रे नु सुमिते) मातृसदृश्यौ सुमानयुक्ते (ते) तयोर्मध्ये (घृतवन्तः सुतासः) रसवन्तः सोमादयो वनस्पतयः (वराय) श्रेष्ठजनाय-उपासकाय (स्वाद्मन् पीतये) सुस्वादुभोजननिमित्तं तथा च पानाय (मधूनि) मधुराणि चोभयभोजनपाननिमित्तानि फलानि (भवन्तु) सन्तु ॥६॥

    इस भाष्य को एडिट करें
    Top