ऋग्वेद - मण्डल 10/ सूक्त 29/ मन्त्र 7
आ मध्वो॑ अस्मा असिच॒न्नम॑त्र॒मिन्द्रा॑य पू॒र्णं स हि स॒त्यरा॑धाः । स वा॑वृधे॒ वरि॑म॒न्ना पृ॑थि॒व्या अ॒भि क्रत्वा॒ नर्य॒: पौंस्यै॑श्च ॥
स्वर सहित पद पाठआ । मध्वः॑ । अ॒स्मै॒ । अ॒सि॒च॒न् । अम॑त्रम् । इन्द्रा॑य । पू॒र्णम् । सः । हि । स॒त्यऽरा॑धाः । सः । व॒वृ॒धे॒ । वरि॑मन् । आ । पृ॒थि॒व्याः । अ॒भि । क्रत्वा॑ । नर्यः॑ । पौंस्यैः॑ । च॒ ॥
स्वर रहित मन्त्र
आ मध्वो अस्मा असिचन्नमत्रमिन्द्राय पूर्णं स हि सत्यराधाः । स वावृधे वरिमन्ना पृथिव्या अभि क्रत्वा नर्य: पौंस्यैश्च ॥
स्वर रहित पद पाठआ । मध्वः । अस्मै । असिचन् । अमत्रम् । इन्द्राय । पूर्णम् । सः । हि । सत्यऽराधाः । सः । ववृधे । वरिमन् । आ । पृथिव्याः । अभि । क्रत्वा । नर्यः । पौंस्यैः । च ॥ १०.२९.७
ऋग्वेद - मण्डल » 10; सूक्त » 29; मन्त्र » 7
अष्टक » 7; अध्याय » 7; वर्ग » 23; मन्त्र » 2
अष्टक » 7; अध्याय » 7; वर्ग » 23; मन्त्र » 2
पदार्थः -
(अस्मै-इन्द्राय) एतस्मै-ऐश्वर्यवते परमात्मने (पूर्णम्-अमत्रम्) समग्रमन्तःकरणं विज्ञानपात्रम् (मध्वः आ-असिचन्) मधुरोपासनारसेन स्तोतारः सिञ्चन्ति (सः-हि सत्यराधाः) स परमात्मा स्थिरानन्दधनवान्-अस्ति। (सः-नर्यः पृथिव्याः-वरिमन्) स मुमुक्षुभ्यो हितः परमात्मा शरीरस्य श्रेष्ठप्रदेशे हृदये “यच्छरीरं पुरुषस्य सा पृथिवी” [ऐ० आ० २।३।३] “वरिमन्-अतिशयेन श्रेष्ठे” [ऋ० ६।६३।११ दयानन्दः] (क्रत्वा पौंस्यैः-च-अभि वावृधे) प्रज्ञानेन योगाभ्यासरूपपुरुषार्थैश्चाभिवृद्धिमाप्नोति साक्षाद्-भवति ॥७॥