ऋग्वेद - मण्डल 10/ सूक्त 29/ मन्त्र 8
व्या॑न॒ळिन्द्र॒: पृत॑ना॒: स्वोजा॒ आस्मै॑ यतन्ते स॒ख्याय॑ पू॒र्वीः । आ स्मा॒ रथं॒ न पृत॑नासु तिष्ठ॒ यं भ॒द्रया॑ सुम॒त्या चो॒दया॑से ॥
स्वर सहित पद पाठवि । आ॒न॒ट् । इन्द्रः॑ । पृत॑नाः । सु॒ऽओजाः॑ । आ । अ॒स्मै॒ । य॒त॒न्ते॒ । स॒ख्याय॑ । पू॒र्वीः । आ । स्म॒ । रथ॑म् । न । पृत॑नासु । ति॒ष्ठ॒ । यम् । भ॒द्रया॑ । सु॒ऽम॒त्या । चो॒दया॑से ॥
स्वर रहित मन्त्र
व्यानळिन्द्र: पृतना: स्वोजा आस्मै यतन्ते सख्याय पूर्वीः । आ स्मा रथं न पृतनासु तिष्ठ यं भद्रया सुमत्या चोदयासे ॥
स्वर रहित पद पाठवि । आनट् । इन्द्रः । पृतनाः । सुऽओजाः । आ । अस्मै । यतन्ते । सख्याय । पूर्वीः । आ । स्म । रथम् । न । पृतनासु । तिष्ठ । यम् । भद्रया । सुऽमत्या । चोदयासे ॥ १०.२९.८
ऋग्वेद - मण्डल » 10; सूक्त » 29; मन्त्र » 8
अष्टक » 7; अध्याय » 7; वर्ग » 23; मन्त्र » 3
अष्टक » 7; अध्याय » 7; वर्ग » 23; मन्त्र » 3
पदार्थः -
(स्वोजाः-इन्द्र) शोभनतेजस्वी तथैश्वर्यवान् परमात्मा (पृतनाः-व्यानट्) मनुष्यान् “पृतनाः-मनुष्याः” [निघं० २।३] व्याप्नोति तदन्तःकरणेषु (पूर्वीः अस्य सख्याय-आयतन्ते) श्रेष्ठप्रजाः-उपासकजना अस्मै-अस्य खल्विन्द्रस्य परमात्मनः-व्यत्ययेन षष्ठीस्थाने चतुर्थी, सखिभावाय सहयोगाय समन्ताद् यतन्ते काङ्क्षन्ति अथ प्रत्यक्षदृष्ट्योच्यते (पृतनासु रथं न स्म-आतिष्ठ) मनुष्येषु स्वकीयरमणयोग्यमानन्दं सम्प्रति “नकारः सम्प्रत्यर्थे” आस्थापय ‘इत्यन्तर्गतणिजर्थः’ (यं भद्रया सुमत्या चोदयासे) यं रमणयोग्यमानन्दं भजनीयया स्तुत्या-भजनीयां स्तुतिं लक्ष्यीकृत्य मनुष्येषु प्रेरयसि ॥८॥