ऋग्वेद - मण्डल 10/ सूक्त 30/ मन्त्र 1
ऋषिः - कवष ऐलूषः
देवता - आप अपान्नपाद्वा
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
प्र दे॑व॒त्रा ब्रह्म॑णे गा॒तुरे॑त्व॒पो अच्छा॒ मन॑सो॒ न प्रयु॑क्ति । म॒हीं मि॒त्रस्य॒ वरु॑णस्य धा॒सिं पृ॑थु॒ज्रय॑से रीरधा सुवृ॒क्तिम् ॥
स्वर सहित पद पाठप्र । दे॒व॒ऽत्रा । ब्रह्म॑णे । गा॒तुः । ए॒तु॒ । अ॒पः । अच्छ॑ । मन॑सः । न । प्रऽयु॑क्ति । म॒हीम् । मि॒त्रस्य॑ । वरु॑णस्य । धा॒सिम् । पृ॒थु॒ऽज्रय॑से । री॒र॒ध॒ । सु॒ऽवृ॒क्तिम् ॥
स्वर रहित मन्त्र
प्र देवत्रा ब्रह्मणे गातुरेत्वपो अच्छा मनसो न प्रयुक्ति । महीं मित्रस्य वरुणस्य धासिं पृथुज्रयसे रीरधा सुवृक्तिम् ॥
स्वर रहित पद पाठप्र । देवऽत्रा । ब्रह्मणे । गातुः । एतु । अपः । अच्छ । मनसः । न । प्रऽयुक्ति । महीम् । मित्रस्य । वरुणस्य । धासिम् । पृथुऽज्रयसे । रीरध । सुऽवृक्तिम् ॥ १०.३०.१
ऋग्वेद - मण्डल » 10; सूक्त » 30; मन्त्र » 1
अष्टक » 7; अध्याय » 7; वर्ग » 24; मन्त्र » 1
अष्टक » 7; अध्याय » 7; वर्ग » 24; मन्त्र » 1
विषयः - अत्र सूक्ते राजप्रजाधर्मा उपदिश्यन्ते।
पदार्थः -
(ब्रह्मणे) प्रजापतये प्रजापतित्वाय प्रजापतिपदप्राप्तये प्रजापालकराजपदाय “प्रजापतिर्वै ब्रह्मा” [काठ०-१४।७] सोमः सोम्यो नवराजः (गातुः) प्रगतिशीलः (अपां नपात्) प्रजा न पातयिता-प्रजारक्षकः (देवत्रा-अपः अच्छ प्र-एतु) देवभाववतीः “देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्यो-र्बहुलम्” [अष्टा० ५।४।५६] इति द्वितीयायाः त्राप्रत्ययः मनुष्यप्रजाः “मनुष्या वा आपश्चन्द्राः” [श० ७।३।१।२०] “आपः आप्ताः प्रजाः” [यजु० ६।२७ दयानन्दः] आभिमुख्येन साक्षात् प्रगच्छतु (मनसः न प्रयुक्ति) यथा मनसः प्रयोजनं स्वाभीष्टं प्रगच्छति (मित्रस्य वरुणस्य महीं धासिं सुवृक्तिम्) संसारे कर्मकरणाय प्रेरकस्य मोक्षे वरयितुः परमात्मन-स्तद्विहितां महतीं धारणीयां भुक्तिं राज्यभुक्तिं तथा सुगमतया वर्जनयोग्या दुःखप्रवृत्तिर्यया तां मुक्तिं च “सुवृक्तिं सुष्ठु वर्जयन्ति दुःखानि यया ताम्” [ऋ० ७।३६।२ दयानन्दः] (पृथुज्रयसे रीरध) विस्तृतो ज्ञानवेगो यस्य तस्मै नवराजाय राजपदप्रतिष्ठिताय “पृथुज्रयाः पृथुजवः” [निरु० ५।१०] हे पुरोहित ! राधय घोषय-उपदिश च ॥१॥