ऋग्वेद - मण्डल 10/ सूक्त 30/ मन्त्र 2
ऋषिः - कवष ऐलूषः
देवता - आप अपान्नपाद्वा
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
अध्व॑र्यवो ह॒विष्म॑न्तो॒ हि भू॒ताच्छा॒प इ॑तोश॒तीरु॑शन्तः । अव॒ याश्चष्टे॑ अरु॒णः सु॑प॒र्णस्तमास्य॑ध्वमू॒र्मिम॒द्या सु॑हस्ताः ॥
स्वर सहित पद पाठअध्व॑र्यवः । ह॒विष्म॑न्तः । हि । भू॒त । अच्छ॑ । अ॒पः । इ॒त॒ । उ॒श॒तीः । उ॒श॒न्तः॒ । अव॑ । याः । चष्टे॑ । अ॒रु॒णः । सु॒ऽप॒र्णः । तम् । आ । अ॒स्य॒ध्व॒म् । ऊ॒र्मिम् । अ॒द्य । सु॒ऽह॒स्ताः॒ ॥
स्वर रहित मन्त्र
अध्वर्यवो हविष्मन्तो हि भूताच्छाप इतोशतीरुशन्तः । अव याश्चष्टे अरुणः सुपर्णस्तमास्यध्वमूर्मिमद्या सुहस्ताः ॥
स्वर रहित पद पाठअध्वर्यवः । हविष्मन्तः । हि । भूत । अच्छ । अपः । इत । उशतीः । उशन्तः । अव । याः । चष्टे । अरुणः । सुऽपर्णः । तम् । आ । अस्यध्वम् । ऊर्मिम् । अद्य । सुऽहस्ताः ॥ १०.३०.२
ऋग्वेद - मण्डल » 10; सूक्त » 30; मन्त्र » 2
अष्टक » 7; अध्याय » 7; वर्ग » 24; मन्त्र » 2
अष्टक » 7; अध्याय » 7; वर्ग » 24; मन्त्र » 2
पदार्थः -
(अध्वर्यवः) हे राजसूययज्ञस्याध्वर्युप्रभृतय ऋत्विजः ! यूयम् (हविष्मन्तः-हि भूत) हव्यवन्तोऽवश्यं भवत (उशतः-उशतीः-अपः-अच्छ-इत) निजराजसूयं कामयमानस्य राज्ञो यूयं चापि तद्राजसूयं कामयमानाः प्रजा आभिमुख्येन प्राप्नुत इति सम्बोध्य पुरोहितः सूचयेत् (अरुणः सुपर्णः याः अवचष्टे) आरोचनः-राजपदे समन्तात् प्रकाशमानः सुष्ठुपालनकर्त्ता नवराजपदस्थो राजा याः प्रजा अवपश्यति-सम्यग् जानाति (तम्-ऊर्मिम्-अद्य सुहस्ताः-आ अस्यध्वम्) तं जलानामूर्मिमिवोपरि स्थितं यद्वाऽऽच्छादनं समन्ताद् रक्षणकर्त्तारम् “ऊर्मिरूर्णोतेः” [निरु० ५।२३] अद्य राजसूयेऽवसरे शोभनोपहारवस्तुयुक्ताः सन्तः समन्ताद् गृह्णीत स्वीकुरुत ग्राहयत स्वीकारयत च “अस गतिदीप्त्यादानेषु” [भ्वादि०] विकरणव्यत्ययश्छान्दसः ॥२॥