Loading...
ऋग्वेद मण्डल - 10 के सूक्त 30 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 30/ मन्त्र 3
    ऋषिः - कवष ऐलूषः देवता - आप अपान्नपाद्वा छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    अध्व॑र्यवो॒ऽप इ॑ता समु॒द्रम॒पां नपा॑तं ह॒विषा॑ यजध्वम् । स वो॑ दददू॒र्मिम॒द्या सुपू॑तं॒ तस्मै॒ सोमं॒ मधु॑मन्तं सुनोत ॥

    स्वर सहित पद पाठ

    अध्व॑र्यवः । अ॒पः । इ॒त॒ । स॒मु॒द्रम् । अ॒पाम् । नपा॑तम् । ह॒विषा॑ । य॒ज॒ध्व॒म् । सः । वः॒ । द॒द॒त् । ऊ॒र्मिम् । अ॒द्य । सुऽपू॑तम् । तस्मै॑ । सोम॑म् । मधु॑ऽमन्तम् । सु॒नो॒त॒ ॥


    स्वर रहित मन्त्र

    अध्वर्यवोऽप इता समुद्रमपां नपातं हविषा यजध्वम् । स वो दददूर्मिमद्या सुपूतं तस्मै सोमं मधुमन्तं सुनोत ॥

    स्वर रहित पद पाठ

    अध्वर्यवः । अपः । इत । समुद्रम् । अपाम् । नपातम् । हविषा । यजध्वम् । सः । वः । ददत् । ऊर्मिम् । अद्य । सुऽपूतम् । तस्मै । सोमम् । मधुऽमन्तम् । सुनोत ॥ १०.३०.३

    ऋग्वेद - मण्डल » 10; सूक्त » 30; मन्त्र » 3
    अष्टक » 7; अध्याय » 7; वर्ग » 24; मन्त्र » 3

    पदार्थः -
    (अध्वर्यवः) हे राजसूययज्ञस्यर्त्विजः ! यूयम् (अपः इत) प्रजाजनान् प्राप्नुत तथा (अपां नपातं समुद्रं हविषा यजध्वम्) प्रजाजनानां न पातयितारं पूर्णरक्षकं समुद्रं समानमाधारं गम्भीरं च राजानमुपहारेणाशीर्दानेन समागमे योजयत (सः) स राजा (वः) युष्मभ्यम् (अद्य-ऊर्मिम् ददत्) अस्मिन् राजसूयावसरे प्रजाभ्यः प्राप्तं सारं दातव्यं भागं ददातु-दास्यतीत्यर्थः, तस्मात् (तस्मै सुपूतं मधुमन्तं सोमं सुनोत) नवराजपदे स्थिताय राज्ञे शुद्धं मधुररसोपेतं सोमरसं राजसूये निःसारयत यद्वा राज्यैश्वर्यं राज्यविधानेन संसाधयत ॥३॥

    इस भाष्य को एडिट करें
    Top