ऋग्वेद - मण्डल 10/ सूक्त 31/ मन्त्र 11
उ॒त कण्वं॑ नृ॒षद॑: पु॒त्रमा॑हुरु॒त श्या॒वो धन॒माद॑त्त वा॒जी । प्र कृ॒ष्णाय॒ रुश॑दपिन्व॒तोध॑ॠ॒तमत्र॒ नकि॑रस्मा अपीपेत् ॥
स्वर सहित पद पाठउ॒त । कण्व॑म् । नृ॒ऽसदः॑ । पु॒त्रम् । आ॒हुः॒ । उ॒त । श्या॒वः । धन॑म् । आ । अ॒द॒त्त॒ । वा॒जी । प्र । कृ॒ष्णाय॑ । रुश॑त् । अ॒पि॒न्व॒त॒ । ऊधः॑ । ऋ॒तम् । अत्र॑ । नकिः॑ । अ॒स्मै॒ । अ॒पी॒पे॒त् ॥
स्वर रहित मन्त्र
उत कण्वं नृषद: पुत्रमाहुरुत श्यावो धनमादत्त वाजी । प्र कृष्णाय रुशदपिन्वतोधॠतमत्र नकिरस्मा अपीपेत् ॥
स्वर रहित पद पाठउत । कण्वम् । नृऽसदः । पुत्रम् । आहुः । उत । श्यावः । धनम् । आ । अदत्त । वाजी । प्र । कृष्णाय । रुशत् । अपिन्वत । ऊधः । ऋतम् । अत्र । नकिः । अस्मै । अपीपेत् ॥ १०.३१.११
ऋग्वेद - मण्डल » 10; सूक्त » 31; मन्त्र » 11
अष्टक » 7; अध्याय » 7; वर्ग » 28; मन्त्र » 6
अष्टक » 7; अध्याय » 7; वर्ग » 28; मन्त्र » 6
पदार्थः -
(कण्वम्-उत नृषदः पुत्रम्-आहुः) उपासकं मेधाविनं “कण्वः मेधाविनाम” [निघं०३।१५] प्राणस्वरूपस्य परमात्मनः पुत्रं कथयन्ति “प्राणो वै नृषत्” [श०६।७।३।१२] (उत) अपि (श्यावः वाजी धनम्-आ-अदत्त) गतिशीलो ज्ञानी बलवान्-उपासकः परमात्मन आनन्दधनं प्राप्नोति (कृष्णाय रुशत्-ऊधः प्र-अपिन्वत) यः परमात्मगुणं कर्षयति तस्मै परमात्मा प्रकाशरूपो निजानन्दरसं पूर्णं स्वरूपं सिञ्चति (उत) अपि (अत्र-ऋतं नकिः-अस्मै-अपीपेत्) अत्र संसारे ज्ञानममृतं वा कश्चनापि न खल्वस्मै-उपासकाय परमात्मनो भिन्नः प्रवर्धयेत् ॥११॥