Loading...
ऋग्वेद मण्डल - 10 के सूक्त 37 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 37/ मन्त्र 12
    ऋषिः - अभितपाः सौर्यः देवता - सूर्यः छन्दः - जगती स्वरः - निषादः

    यद्वो॑ देवाश्चकृ॒म जि॒ह्वया॑ गु॒रु मन॑सो वा॒ प्रयु॑ती देव॒हेळ॑नम् । अरा॑वा॒ यो नो॑ अ॒भि दु॑च्छुना॒यते॒ तस्मि॒न्तदेनो॑ वसवो॒ नि धे॑तन ॥

    स्वर सहित पद पाठ

    यत् । वः॒ । दे॒वाः॒ । च॒कृ॒म । जि॒ह्वया॑ । गु॒रु । मन॑सः । वा॒ । प्रऽयु॑ती । दे॒व॒ऽहेळ॑नम् । अरा॑वा । यः । नः॒ । अ॒भि । दु॒च्छु॒न॒ऽयते॑ । तस्मि॑न् । तत् । एनः॑ । व॒स॒वः॒ । नि । धे॒त॒न॒ ॥


    स्वर रहित मन्त्र

    यद्वो देवाश्चकृम जिह्वया गुरु मनसो वा प्रयुती देवहेळनम् । अरावा यो नो अभि दुच्छुनायते तस्मिन्तदेनो वसवो नि धेतन ॥

    स्वर रहित पद पाठ

    यत् । वः । देवाः । चकृम । जिह्वया । गुरु । मनसः । वा । प्रऽयुती । देवऽहेळनम् । अरावा । यः । नः । अभि । दुच्छुनऽयते । तस्मिन् । तत् । एनः । वसवः । नि । धेतन ॥ १०.३७.१२

    ऋग्वेद - मण्डल » 10; सूक्त » 37; मन्त्र » 12
    अष्टक » 7; अध्याय » 8; वर्ग » 13; मन्त्र » 6

    पदार्थः -
    (देवाः) हे उपासकाः ! विद्वांसो वा (वः) युष्मान् प्रति (यत्-जिह्वया मनसा वा प्रयुती गुरु देवहेळनं चकृम) यद् वाचा “जिह्वा वाङ्नाम” [निघ० १।११] मनसा यद्वा प्रयुत्या प्रयोगेण कर्मणा वा युष्माकं देवानां यत् बृहत् क्रोधनं पापं कुर्मः, ‘तद् यूयं शोधयत’ (यः अरावा नः अभिदुच्छुनायते) यः कश्चित्-अदानशीलोऽपितु हरणशीलः शत्रुरस्मान् दुष्टश्वेवाचरति द्वेष्टि (तस्मिन् तत्-एनः वसवः-निधेतन) तस्मिन् द्वेषिणि तत्पापकर्मफलं हे वासयितारः ! प्रापयत ॥१२॥

    इस भाष्य को एडिट करें
    Top