ऋग्वेद - मण्डल 10/ सूक्त 4/ मन्त्र 7
ब्रह्म॑ च ते जातवेदो॒ नम॑श्चे॒यं च॒ गीः सद॒मिद्वर्ध॑नी भूत् । रक्षा॑ णो अग्ने॒ तन॑यानि तो॒का रक्षो॒त न॑स्त॒न्वो॒३॒॑ अप्र॑युच्छन् ॥
स्वर सहित पद पाठब्रह्म॑ । च॒ । ते॒ । जा॒त॒ऽवे॒दः॒ । नमः॑ । च॒ । इ॒यम् । च॒ । गीः । सद॑म् । इत् । वर्ध॑नी । भू॒त् । रक्ष॑ । नः॒ । अ॒ग्ने॒ । तन॑यानि । तो॒का । रक्ष॑ । उ॒त । नः॒ । त॒न्वः॑ । अप्र॑ऽयुच्छन् ॥
स्वर रहित मन्त्र
ब्रह्म च ते जातवेदो नमश्चेयं च गीः सदमिद्वर्धनी भूत् । रक्षा णो अग्ने तनयानि तोका रक्षोत नस्तन्वो३ अप्रयुच्छन् ॥
स्वर रहित पद पाठब्रह्म । च । ते । जातऽवेदः । नमः । च । इयम् । च । गीः । सदम् । इत् । वर्धनी । भूत् । रक्ष । नः । अग्ने । तनयानि । तोका । रक्ष । उत । नः । तन्वः । अप्रऽयुच्छन् ॥ १०.४.७
ऋग्वेद - मण्डल » 10; सूक्त » 4; मन्त्र » 7
अष्टक » 7; अध्याय » 5; वर्ग » 32; मन्त्र » 7
अष्टक » 7; अध्याय » 5; वर्ग » 32; मन्त्र » 7
पदार्थः -
(जातवेदः) हे उत्पन्नमात्रस्याग्न्यादिकस्य वेत्तः परमात्मन् ! (ते) तुभ्यम् (ब्रह्म) मन्त्रचिन्तनमुपासनम् (च) तथा (नमः) यज्ञः “यज्ञो वै नमः” [श० १।४।२।२४] (इयं गीः) इयं स्तुतिवाणी (सदम्-इत्) सदैव (वर्धनी भूत्) वर्धिका भवतु, अस्माकमात्मनि त्वां वर्धयेत् (नः) अस्माकम् (तनयानि रक्ष) पुत्रान् रक्ष (तोका) तोकान्-पौत्रान् रक्ष (उत) अपि (नः-तन्वः) अस्माकमङ्गानि चापि (अप्रयुच्छन्) अनुपेक्षमाणाः सन् रक्षेत्यर्थः ॥७॥