Loading...
ऋग्वेद मण्डल - 10 के सूक्त 5 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 5/ मन्त्र 1
    ऋषिः - त्रितः देवता - अग्निः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    एक॑: समु॒द्रो ध॒रुणो॑ रयी॒णाम॒स्मद्धृ॒दो भूरि॑जन्मा॒ वि च॑ष्टे । सिष॒क्त्यूध॑र्नि॒ण्योरु॒पस्थ॒ उत्स॑स्य॒ मध्ये॒ निहि॑तं प॒दं वेः ॥

    स्वर सहित पद पाठ

    एकः॑ । स॒मु॒द्रः । ध॒रुणः॑ । र॒यी॒णाम् । अ॒स्मत् । हृ॒दः । भूरि॑ऽजन्मा । वि । च॒ष्टे॒ । सिस॑क्ति । ऊधः॑ । नि॒ण्योः । उ॒पऽस्थे॑ । उत्स॑स्य । मध्ये॑ । निऽहि॑तम् । प॒दम् । वेरिति॒ वेः ॥


    स्वर रहित मन्त्र

    एक: समुद्रो धरुणो रयीणामस्मद्धृदो भूरिजन्मा वि चष्टे । सिषक्त्यूधर्निण्योरुपस्थ उत्सस्य मध्ये निहितं पदं वेः ॥

    स्वर रहित पद पाठ

    एकः । समुद्रः । धरुणः । रयीणाम् । अस्मत् । हृदः । भूरिऽजन्मा । वि । चष्टे । सिसक्ति । ऊधः । निण्योः । उपऽस्थे । उत्सस्य । मध्ये । निऽहितम् । पदम् । वेरिति वेः ॥ १०.५.१

    ऋग्वेद - मण्डल » 10; सूक्त » 5; मन्त्र » 1
    अष्टक » 7; अध्याय » 5; वर्ग » 33; मन्त्र » 1

    पदार्थः -
    (रयीणाम्) विविधपोषकधनानामन्नानाम् “रयिं धेहि पोषं धेहि” [काठ० १।७] “पुष्टं रयिः” [श० २।३।४।१३] (समुद्रः-धरुणः-एकः) समुद्राता-सम्यगुद्दाता धारकश्चैक एव (भूरिजन्मा) बहुप्रकारेण बहुषु वा जन्मप्रसिद्धिः-यस्य सोऽग्निः (अस्मद्धृदः-विचष्टे) अस्माकं हृदयभावान् विकासयति (उपस्थे निण्योः-ऊधः-सिषक्ति) अन्तरिक्षे “अपामुपस्थे अपां स्थान अन्तरिक्षे” [निरु० ७।२७] अन्तर्हितं गुप्तं रसं जलं सिञ्चति। “ऊधो दुहन्ति” [काठ० २।९] “षच-सेचने” [भ्वादिः] “सिषक्ति सिञ्चति” [ऋ० ४।२१।७ दयानन्दः] निण्योः-इति=“निण्यम्-अन्तर्हितनाम” [निघ० ३।२] अम् प्रत्ययस्य स्थाने ‘ओस्’ स च डित् डोस्, “सुपां सुपो भवन्तीति वक्तव्यम्” [अष्टा० ७।१।३९। वा०] (उत्सस्य मध्ये निहितं पदं वेः) उत्स्रवणशीलस्य मेघस्य मध्ये पदं प्रापणीयं जलरूपं प्राप्नुहि विद्युद्रूप हे अग्ने ! इति प्रत्यक्षेणोच्यते ॥१॥

    इस भाष्य को एडिट करें
    Top