Loading...
ऋग्वेद मण्डल - 10 के सूक्त 5 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 5/ मन्त्र 2
    ऋषिः - त्रितः देवता - अग्निः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    स॒मा॒नं नी॒ळं वृष॑णो॒ वसा॑ना॒: सं ज॑ग्मिरे महि॒षा अर्व॑तीभिः । ऋ॒तस्य॑ प॒दं क॒वयो॒ नि पा॑न्ति॒ गुहा॒ नामा॑नि दधिरे॒ परा॑णि ॥

    स्वर सहित पद पाठ

    स॒मा॒नम् । नी॒ळम् । वृष॑णः । वसा॑नाः । सम् । ज॒ग्मि॒रे॒ । म॒हि॒षाः । अर्व॑तीभिः । ऋ॒तस्य॑ । प॒दम् । क॒वयः॑ । नि । पा॒न्ति॒ । गुहा॑ । नामा॑नि । द॒धि॒रे॒ । परा॑णि ॥


    स्वर रहित मन्त्र

    समानं नीळं वृषणो वसाना: सं जग्मिरे महिषा अर्वतीभिः । ऋतस्य पदं कवयो नि पान्ति गुहा नामानि दधिरे पराणि ॥

    स्वर रहित पद पाठ

    समानम् । नीळम् । वृषणः । वसानाः । सम् । जग्मिरे । महिषाः । अर्वतीभिः । ऋतस्य । पदम् । कवयः । नि । पान्ति । गुहा । नामानि । दधिरे । पराणि ॥ १०.५.२

    ऋग्वेद - मण्डल » 10; सूक्त » 5; मन्त्र » 2
    अष्टक » 7; अध्याय » 5; वर्ग » 33; मन्त्र » 2

    पदार्थः -
    (महिषाः) महान्तः “महिषः-महन्नाम” [निघ० ३।३] (वृषणः) पर्जन्याः मेघाः “वृषा-पर्जन्यः” [निघं० १।६] (समानं नीळं वसानाः) समानमाश्रयमग्निं वसाना आच्छादयन्तो वर्तन्ते (अर्वतीभिः-संजग्मिरे) ईरणवतीभिः-वेगवतीभिर्विद्युद्भिः सङ्गता भवन्ति-संयुक्ता भवन्ति “अर्वत्सु विद्युदादिषु” [यजु० ४।३१ दयानन्दः] (ऋतस्य पदं कवयः-निपान्ति) सत्यस्य-उदकस्य विज्ञानं मेधाविनो रक्षन्ति स्वस्मिन् स्थापयन्ति (गुहा पराणि नामानि दधिरे) पराणि-उपरिस्थितानि-उदकानि “नाम-उदकनाम” (निघं० १।१२) यानि गुहायामिव स्थितानि धारयन्ति ॥२॥

    इस भाष्य को एडिट करें
    Top