Loading...
ऋग्वेद मण्डल - 10 के सूक्त 41 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 41/ मन्त्र 2
    ऋषिः - सुहस्त्यो घौषेयः देवता - अश्विनौ छन्दः - निचृज्जगती स्वरः - निषादः

    प्रा॒त॒र्युजं॑ नास॒त्याधि॑ तिष्ठथः प्रात॒र्यावा॑णं मधु॒वाह॑नं॒ रथ॑म् । विशो॒ येन॒ गच्छ॑थो॒ यज्व॑रीर्नरा की॒रेश्चि॑द्य॒ज्ञं होतृ॑मन्तमश्विना ॥

    स्वर सहित पद पाठ

    प्रा॒तः॒ऽयुज॑म् । ना॒स॒त्या॒ । अधि॑ । ति॒ष्ठ॒थः॒ । प्रा॒तः॒ऽयावा॑नम् । म॒धु॒ऽवाह॑नम् । रथ॑म् । विशः॑ । येन॑ । गच्छ॑तः । यज्व॑रीः । न॒रा॒ । की॒रेः । चि॒त् । य॒ज्ञम् । होतृ॑ऽमन्तम् । अ॒श्वि॒ना॒ ॥


    स्वर रहित मन्त्र

    प्रातर्युजं नासत्याधि तिष्ठथः प्रातर्यावाणं मधुवाहनं रथम् । विशो येन गच्छथो यज्वरीर्नरा कीरेश्चिद्यज्ञं होतृमन्तमश्विना ॥

    स्वर रहित पद पाठ

    प्रातःऽयुजम् । नासत्या । अधि । तिष्ठथः । प्रातःऽयावानम् । मधुऽवाहनम् । रथम् । विशः । येन । गच्छतः । यज्वरीः । नरा । कीरेः । चित् । यज्ञम् । होतृऽमन्तम् । अश्विना ॥ १०.४१.२

    ऋग्वेद - मण्डल » 10; सूक्त » 41; मन्त्र » 2
    अष्टक » 7; अध्याय » 8; वर्ग » 21; मन्त्र » 2

    पदार्थः -
    (नासत्या) हे नासायां भवौ ! (नरा) शरीरस्य नेतारौ ! (अश्विना) आशुगन्तारौ प्राणापानौ ! “अश्विनौ द्व्यक्षरेण प्राणापानौ” [तै० १।११।१] “अश्विनौ प्राणापानौ” [यजु० २१।६० दयानन्दः] (प्रातर्यावाणम्) प्रातर्वच्छुभगतिमन्तम् (मधुवाहनम्) माधुर्यप्राप्तिकरम् (रथम्) रमणीयं मोक्षम् (अधितिष्ठथः) अधितिष्ठापयथः ‘अन्तर्गतो णिजर्थः’ (येन यज्वरीः-विशः-गच्छथः) यमनु-यं मोक्षमभिलक्ष्य युवामध्यात्मयाजिनीः प्रजाः-मनुष्यप्रजाः प्राप्नुथः (कीरेः-होतृमन्तं यज्ञं चित्) स्तोतुः “कीरिः स्तोतृनाम” [निघ० ३।१६] आत्मवन्तम् “आत्मा वै होता” [कौ० ४।६] अध्यात्मयज्ञं चित् प्राप्नुथः ॥२॥

    इस भाष्य को एडिट करें
    Top