Loading...
ऋग्वेद मण्डल - 10 के सूक्त 41 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 41/ मन्त्र 3
    ऋषिः - सुहस्त्यो घौषेयः देवता - अश्विनौ छन्दः - विराड्जगती स्वरः - निषादः

    अ॒ध्व॒र्युं वा॒ मधु॑पाणिं सु॒हस्त्य॑म॒ग्निधं॑ वा धृ॒तद॑क्षं॒ दमू॑नसम् । विप्र॑स्य वा॒ यत्सव॑नानि॒ गच्छ॒थोऽत॒ आ या॑तं मधु॒पेय॑मश्विना ॥

    स्वर सहित पद पाठ

    अ॒ध्व॒र्युम् । वा॒ । मधु॑ऽपाणिम् । सु॒ऽहस्त्य॑म् । अ॒ग्निध॑म् । वा॒ । धृ॒तऽद॑क्षम् । दमू॑नसम् । विप्र॑स्य । वा॒ । यत् । सव॑नानि । गच्छ॑थः । अतः॑ । आ । या॒त॒म् । म॒धु॒ऽपेय॑म् । अ॒श्वि॒न्चा ॥


    स्वर रहित मन्त्र

    अध्वर्युं वा मधुपाणिं सुहस्त्यमग्निधं वा धृतदक्षं दमूनसम् । विप्रस्य वा यत्सवनानि गच्छथोऽत आ यातं मधुपेयमश्विना ॥

    स्वर रहित पद पाठ

    अध्वर्युम् । वा । मधुऽपाणिम् । सुऽहस्त्यम् । अग्निधम् । वा । धृतऽदक्षम् । दमूनसम् । विप्रस्य । वा । यत् । सवनानि । गच्छथः । अतः । आ । यातम् । मधुऽपेयम् । अश्विन्चा ॥ १०.४१.३

    ऋग्वेद - मण्डल » 10; सूक्त » 41; मन्त्र » 3
    अष्टक » 7; अध्याय » 8; वर्ग » 21; मन्त्र » 3

    पदार्थः -
    (अश्विना) हे प्राणापानौ ! (मधुपाणिम्-अध्वर्युं वा) मधुरस्तुतिकर्तृ मनस् तद्वन्तमात्मानम् “मनो वा अध्वर्युः” [श० १।५।१।२१] (सुहस्त्यम्) सुहस्तक्रियायुक्तं दानादिकार्यशीलम् (अग्निधम्) ज्ञानप्रकाशकपरमात्मनः धारकम् (घृतदक्षम्) घृतं बलं येन तमात्मबलवन्तम् (दमूनसम्) दान्तमनसम् “दमूना दान्तमनाः” [४।५] यद्वोपासकम् (विप्रस्य सवनानि वा गच्छथः) मेधाविनः मेधया कार्यविधातुर्ज्ञानकार्याणि वा प्राप्नुथः (अतः) अतएव (मधुपेयम्-आयातम्) आनन्दः पेयो यस्मिन् तं मोक्षं समन्ताद् गमयतम् ॥३॥

    इस भाष्य को एडिट करें
    Top