Loading...
ऋग्वेद मण्डल - 10 के सूक्त 48 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 48/ मन्त्र 2
    ऋषिः - इन्द्रो वैकुण्ठः देवता - इन्द्रो वैकुण्ठः छन्दः - जगती स्वरः - निषादः

    अ॒हमिन्द्रो॒ रोधो॒ वक्षो॒ अथ॑र्वणस्त्रि॒ताय॒ गा अ॑जनय॒महे॒रधि॑ । अ॒हं दस्यु॑भ्य॒: परि॑ नृ॒म्णमा द॑दे गो॒त्रा शिक्ष॑न्दधी॒चे मा॑त॒रिश्व॑ने ॥

    स्वर सहित पद पाठ

    अ॒हम् । इन्द्रः॑ । रोधः॑ । वक्षः॑ । अथ॑र्वणः । त्रि॒तायः॑ । गाः । अ॒ज॒न॒य॒म् । अहेः॑ । अधि॑ । अ॒हम् । दस्यु॑ऽभ्यः । परि॑ । नृ॒म्णम् । आ । द॒दे॒ । गो॒त्रा । शिक्ष॑न् । द॒धी॒चे । मा॒त॒रिश्व॑ने ॥


    स्वर रहित मन्त्र

    अहमिन्द्रो रोधो वक्षो अथर्वणस्त्रिताय गा अजनयमहेरधि । अहं दस्युभ्य: परि नृम्णमा ददे गोत्रा शिक्षन्दधीचे मातरिश्वने ॥

    स्वर रहित पद पाठ

    अहम् । इन्द्रः । रोधः । वक्षः । अथर्वणः । त्रितायः । गाः । अजनयम् । अहेः । अधि । अहम् । दस्युऽभ्यः । परि । नृम्णम् । आ । ददे । गोत्रा । शिक्षन् । दधीचे । मातरिश्वने ॥ १०.४८.२

    ऋग्वेद - मण्डल » 10; सूक्त » 48; मन्त्र » 2
    अष्टक » 8; अध्याय » 1; वर्ग » 5; मन्त्र » 2

    पदार्थः -
    (अहम्-इन्द्रः) अहमैश्वर्यवान् परमात्मा (अथर्वणः) अविचलितस्य योगिनः “अथर्वा……थर्वति गतिकर्मा तत्प्रतिषेघः” [निरु० ११।१९] “अहिंसकस्य विदुषः” [यजु० ११।३३ दयानन्दः] (वक्षः-रोधः) भासः-ज्ञानप्रकाशकस्य, “वक्षो भासः” [निरु० ४।१६] रोधयिता-अज्ञानान्निवारयिताऽस्मि (त्रिताय-अहेः-गाः अधि-अजनयम्) स्तुतिप्रार्थनोपासनास्तनोति यः स त्रितस्तस्मै-आध्यात्मिकजनाय, अहेः पापहन्त्रे जनाय “चतुर्थ्यर्थे बहुलं छन्दसि” [अष्टा० २।३।६२] ‘इति चतुर्थ्यर्थे षष्ठी’ “अहिः-निर्ह्रसितोपसर्गः-आहन्ता” [निरु० २।१७] ज्ञानवाचः “गौ-वाङ्नाम” [निघ० १।११] जनयामि-प्रादुर्भावयामि (अहम्) अहं परमात्मा (दस्युभ्यः-नृम्णं परि-आ ददे) अन्येषां क्षयकारकेभ्यस्तत्सकाशाद्धनं पूर्णतो गृह्वामि (मातरिश्वने दधीचे गोत्रा शिक्षन्) मातरि मातुर्गर्भे गच्छते गमनशीलाय ध्यानिने जीवाय सामान्यवाचः प्रयच्छामि ॥२॥

    इस भाष्य को एडिट करें
    Top