Loading...
ऋग्वेद मण्डल - 10 के सूक्त 48 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 48/ मन्त्र 1
    ऋषिः - इन्द्रो वैकुण्ठः देवता - इन्द्रो वैकुण्ठः छन्दः - पादनिचृज्ज्गती स्वरः - निषादः

    अ॒हं भु॑वं॒ वसु॑नः पू॒र्व्यस्पति॑र॒हं धना॑नि॒ सं ज॑यामि॒ शश्व॑तः । मां ह॑वन्ते पि॒तरं॒ न ज॒न्तवो॒ऽहं दा॒शुषे॒ वि भ॑जामि॒ भोज॑नम् ॥

    स्वर सहित पद पाठ

    अ॒हम् । भु॒व॒म् । वसु॑नः । पू॒र्व्यः । पतिः॑ । अ॒हम् । धना॑नि । सम् । ज॒जा॒मि॒ । शश्व॑तः । माम् । ह॒व॒न्ते॒ । पि॒तर॑म् । न । ज॒न्तवः॑ । अ॒हम् । दा॒शुषे॑ । वि । भ॒जा॒मि॒ । भोज॑नम् ॥


    स्वर रहित मन्त्र

    अहं भुवं वसुनः पूर्व्यस्पतिरहं धनानि सं जयामि शश्वतः । मां हवन्ते पितरं न जन्तवोऽहं दाशुषे वि भजामि भोजनम् ॥

    स्वर रहित पद पाठ

    अहम् । भुवम् । वसुनः । पूर्व्यः । पतिः । अहम् । धनानि । सम् । जजामि । शश्वतः । माम् । हवन्ते । पितरम् । न । जन्तवः । अहम् । दाशुषे । वि । भजामि । भोजनम् ॥ १०.४८.१

    ऋग्वेद - मण्डल » 10; सूक्त » 48; मन्त्र » 1
    अष्टक » 8; अध्याय » 1; वर्ग » 5; मन्त्र » 1

    पदार्थः -
    (अहम्) अहं परमात्मा (वसुनः) नितान्तं वसन्ति मुक्तात्मानो यस्मिन् तस्य मोक्षधाम्नो धनभूतस्य (पूर्व्यः) सनातनः (पतिः) स्वामी खल्वस्मि (अहम्) अहमेव परमात्मा (धनानि) लौकिकानि धनानि (शश्वतः) बहोर्गणस्य जीवगणस्य “शश्वत्-बहुनाम” [निघ० ३।१] तृप्तये (संजयामि) संरक्षामि स्वाधीने संस्थापयामि, अतः (जन्तवः) जीवाः मनुष्याः “मनुष्या वै जन्तवः” [श० ७।३।१।३२] (मां पितरं न हवन्ते) मां पितरमिव-आह्वयन्ति (अहम्) अहं हि (दाशुषे) दत्तवतेऽन्येभ्यो दानकर्त्रे यद्वा स्वात्मसमर्पणं कृतवते (भोजनम्) लोकसुखकरं भोगं मोक्षानन्दं च (विभजामि) यथायोग्यं विभज्य प्रयच्छामि ॥१॥

    इस भाष्य को एडिट करें
    Top