ऋग्वेद - मण्डल 10/ सूक्त 47/ मन्त्र 8
ऋषिः - सप्तगुः
देवता - इन्द्रो वैकुण्ठः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
यत्त्वा॒ यामि॑ द॒द्धि तन्न॑ इन्द्र बृ॒हन्तं॒ क्षय॒मस॑मं॒ जना॑नाम् । अ॒भि तद्द्यावा॑पृथि॒वी गृ॑णीताम॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दा॑: ॥
स्वर सहित पद पाठयत् । त्वा॒ । यामि॑ । द॒द्धि । तत् । नः॒ । इ॒न्द्र॒ । बृ॒हन्त॑म् । क्षय॑म् । अस॑मम् । जना॑नाम् । अ॒भि । तत् । द्यावा॑पृथि॒वी इति॑ । गृ॒णी॒ता॒म् । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥
स्वर रहित मन्त्र
यत्त्वा यामि दद्धि तन्न इन्द्र बृहन्तं क्षयमसमं जनानाम् । अभि तद्द्यावापृथिवी गृणीतामस्मभ्यं चित्रं वृषणं रयिं दा: ॥
स्वर रहित पद पाठयत् । त्वा । यामि । दद्धि । तत् । नः । इन्द्र । बृहन्तम् । क्षयम् । असमम् । जनानाम् । अभि । तत् । द्यावापृथिवी इति । गृणीताम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥ १०.४७.८
ऋग्वेद - मण्डल » 10; सूक्त » 47; मन्त्र » 8
अष्टक » 8; अध्याय » 1; वर्ग » 4; मन्त्र » 3
अष्टक » 8; अध्याय » 1; वर्ग » 4; मन्त्र » 3
पदार्थः -
(इन्द्र) हे ऐश्वर्यवन् परमात्मन् ! (त्वा) त्वाम् (यत्-यामि) यत् खलु याचामि याचेऽहम् “यामि याच्ञाकर्मा” [निघ० ३।१९] (तत्-नः-दद्धि) तदस्मभ्यं देहि “दद दाने” [भ्वादिः] ‘लोटि व्यत्ययेन परस्मैपदं बहुलं छन्दसि शपो लुक् च’, तत्किमित्युच्यते (जनानाम्-असमं क्षयम्) उपासकजनानामन्येभ्यो विशिष्टममरस्थानं मोक्षमित्यर्थः (तत्-द्यावापृथिवी-अभिगृणीताम्) तत् खलु मातापितरौ मातापितृभूतौ स्त्रीपुरुषौ, अध्यापिकाध्यापकौ “द्यौर्मे पिता………माता पृथिवी महीयम्” [ऋ० १।१६४।३३] अभ्युपदिशतः (अस्मभ्यम्…) पूर्ववत् ॥८॥