ऋग्वेद - मण्डल 10/ सूक्त 50/ मन्त्र 6
ऋषिः - इन्द्रो वैकुण्ठः
देवता - इन्द्रो वैकुण्ठः
छन्दः - पादनिचृज्ज्गती
स्वरः - निषादः
ए॒ता विश्वा॒ सव॑ना तूतु॒मा कृ॑षे स्व॒यं सू॑नो सहसो॒ यानि॑ दधि॒षे । वरा॑य ते॒ पात्रं॒ धर्म॑णे॒ तना॑ य॒ज्ञो मन्त्रो॒ ब्रह्मोद्य॑तं॒ वच॑: ॥
स्वर सहित पद पाठए॒ता । विश्वा॑ । सव॑ना । तू॒तु॒मा । कृ॒षे॒ । स्व॒यम् । सू॒नो॒ इति॑ । स॒ह॒सः॒ । यानि॑ । द॒धि॒षे । वरा॑य । ते॒ । पात्र॑म् । धर्म॑णे । तना॑ । य॒ज्ञः । मन्त्रः॒ । ब्रह्म॑ । उ॒त्ऽय॑तम् । वचः॑ ॥
स्वर रहित मन्त्र
एता विश्वा सवना तूतुमा कृषे स्वयं सूनो सहसो यानि दधिषे । वराय ते पात्रं धर्मणे तना यज्ञो मन्त्रो ब्रह्मोद्यतं वच: ॥
स्वर रहित पद पाठएता । विश्वा । सवना । तूतुमा । कृषे । स्वयम् । सूनो इति । सहसः । यानि । दधिषे । वराय । ते । पात्रम् । धर्मणे । तना । यज्ञः । मन्त्रः । ब्रह्म । उत्ऽयतम् । वचः ॥ १०.५०.६
ऋग्वेद - मण्डल » 10; सूक्त » 50; मन्त्र » 6
अष्टक » 8; अध्याय » 1; वर्ग » 9; मन्त्र » 6
अष्टक » 8; अध्याय » 1; वर्ग » 9; मन्त्र » 6
पदार्थः -
(एता विश्वा सवना तूतुमा कृषे) हे परमात्मन् ! इमानि विश्वानि निष्पाद्यानि स्तुतिप्रार्थनोपासनानि कर्माणि शीघ्रं स्वीकरोषि (सहसः सूनो) अध्यात्मबलस्य उत्पादक परमात्मन् ! (यानि स्वयं दधिषे) यानि खलु स्वयं विदधिषे विदधासि वेदेषूपदिशसि (ते पात्रं धर्मणे वराय तना) तव पात्राय पात्रभूताय ‘चतुर्थीस्थाने द्वितीया’ त्वां वरयित्रे धारकाय ध्यानशीलाय-अध्यात्मधनानि भवन्तु “तना धननाम” [निघ० २।१०] (यज्ञः-मन्त्रः ब्रह्मोद्यतं वचः) तस्य पात्रभूतस्य स्तोतुः-यज्ञम् श्रेष्ठकर्मयजनं मननं ज्ञानं प्रकटितं स्तुतिवचनं तुभ्यमस्तु ॥६॥