Loading...
ऋग्वेद मण्डल - 10 के सूक्त 50 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 50/ मन्त्र 5
    ऋषिः - इन्द्रो वैकुण्ठः देवता - इन्द्रो वैकुण्ठः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    अवा॒ नु कं॒ ज्याया॑न्य॒ज्ञव॑नसो म॒हीं त॒ ओमा॑त्रां कृ॒ष्टयो॑ विदुः । असो॒ नु क॑म॒जरो॒ वर्धा॑श्च॒ विश्वेदे॒ता सव॑ना तूतु॒मा कृ॑षे ॥

    स्वर सहित पद पाठ

    अव॑ । नु । क॒म् । ज्याया॑न् । य॒ज्ञऽव॑नसः । म॒हीम् । ते॒ । ओमा॑त्राम् । कृ॒ष्टयः॑ । वि॒दुः॒ । असः॑ । नु । क॒म् । अ॒जरः॑ । वर्धाः॑ । च॒ । विश्वा॑ । इत् । ए॒ता । सव॑ना । तू॒तु॒मा । कृ॒षे॒ ॥


    स्वर रहित मन्त्र

    अवा नु कं ज्यायान्यज्ञवनसो महीं त ओमात्रां कृष्टयो विदुः । असो नु कमजरो वर्धाश्च विश्वेदेता सवना तूतुमा कृषे ॥

    स्वर रहित पद पाठ

    अव । नु । कम् । ज्यायान् । यज्ञऽवनसः । महीम् । ते । ओमात्राम् । कृष्टयः । विदुः । असः । नु । कम् । अजरः । वर्धाः । च । विश्वा । इत् । एता । सवना । तूतुमा । कृषे ॥ १०.५०.५

    ऋग्वेद - मण्डल » 10; सूक्त » 50; मन्त्र » 5
    अष्टक » 8; अध्याय » 1; वर्ग » 9; मन्त्र » 5

    पदार्थः -
    (ज्यायान्) हे इन्द्र-ऐश्वर्यवन् परमात्मन् ! त्वं महान्-असि (यज्ञवनसः-नु कम्-अव) ये-अध्यात्मयज्ञं वनन्ति सम्भजन्ति-अध्यात्मयज्ञस्यानुष्ठातारस्तान् शीघ्रं रक्ष (ते महीम्-ओमात्रां कृष्टयः-विदुः) तव महतीं रक्षाम् “अव रक्षणे” [भ्वादिः] ‘मात्रन् प्रत्ययो बाहुलकादौणादिकः, ऊठ् च बाहुलादेव’ मनुष्या जानन्ति (अजरः नु कम्-असः-च वर्धाः) त्वं खल्वजरो जरारहितो भवसि शीघ्रं वर्धय (विश्वा-एता सवना-इत्-तूतुमा-कृषे) सर्वाणि-एतानि सवनानि निष्पाद्यानि स्तुतिप्रार्थनोपासनानि शीघ्रं स्वीकरोषि, इत्यपि जानन्ति ॥५॥

    इस भाष्य को एडिट करें
    Top