Loading...
ऋग्वेद मण्डल - 10 के सूक्त 50 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 50/ मन्त्र 4
    ऋषिः - इन्द्रो वैकुण्ठः देवता - इन्द्रो वैकुण्ठः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    भुव॒स्त्वमि॑न्द्र॒ ब्रह्म॑णा म॒हान्भुवो॒ विश्वे॑षु॒ सव॑नेषु य॒ज्ञिय॑: । भुवो॒ नॄँश्च्यौ॒त्नो विश्व॑स्मि॒न्भरे॒ ज्येष्ठ॑श्च॒ मन्त्रो॑ विश्वचर्षणे ॥

    स्वर सहित पद पाठ

    भुवः॑ । त्वम् । इ॒न्द्र॒ । ब्रह्म॑णा । म॒हान् । भुवः॑ । विश्वे॑षु । सव॑नेषु । य॒ज्ञियः॑ । भुवः॑ । नॄन् । च्यौ॒त्नः । विश्व॑स्मिन् । भरे॑ । ज्येष्ठः॑ । च॒ । मन्त्रः॑ । वि॒श्व॒ऽच॒र्ष॒णे॒ ॥


    स्वर रहित मन्त्र

    भुवस्त्वमिन्द्र ब्रह्मणा महान्भुवो विश्वेषु सवनेषु यज्ञिय: । भुवो नॄँश्च्यौत्नो विश्वस्मिन्भरे ज्येष्ठश्च मन्त्रो विश्वचर्षणे ॥

    स्वर रहित पद पाठ

    भुवः । त्वम् । इन्द्र । ब्रह्मणा । महान् । भुवः । विश्वेषु । सवनेषु । यज्ञियः । भुवः । नॄन् । च्यौत्नः । विश्वस्मिन् । भरे । ज्येष्ठः । च । मन्त्रः । विश्वऽचर्षणे ॥ १०.५०.४

    ऋग्वेद - मण्डल » 10; सूक्त » 50; मन्त्र » 4
    अष्टक » 8; अध्याय » 1; वर्ग » 9; मन्त्र » 4

    पदार्थः -
    (इन्द्र) हे ऐश्वर्यवन् परमात्मन् ! (त्वम्) (ब्रह्मणा महान् भुवः) ज्ञानेन वेदज्ञानेन महान् भवसि (विश्वेषु सवनेषु यज्ञियः-भुवः) सर्वेषु सम्पादनीयेषु ब्रह्मचर्यगृहस्थवानप्रस्थसंन्यासाश्रमेषु सङ्गमनीयो भवसि (नॄन्-च्यौत्नः-भुवः) मुमुक्षून् प्रति रागादीन् च्योतयिता बलवान् भवसि (विश्वचर्षणे) हे सर्वद्रष्टः परमात्मन् ! (विश्वस्मिन् भरे ज्येष्ठः-मन्त्रः-च) सर्वस्मिन् भरणीये धारणीये निर्वाहके त्वं ज्येष्ठः श्रेष्ठो मन्त्रयिता मन्त्रप्रदः-ज्ञानप्रदो भवसि ॥४॥

    इस भाष्य को एडिट करें
    Top