ऋग्वेद - मण्डल 10/ सूक्त 50/ मन्त्र 3
ऋषिः - इन्द्रो वैकुण्ठः
देवता - इन्द्रो वैकुण्ठः
छन्दः - पादनिचृज्ज्गती
स्वरः - धैवतः
के ते नर॑ इन्द्र॒ ये त॑ इ॒षे ये ते॑ सु॒म्नं स॑ध॒न्य१॒॑मिय॑क्षान् । के ते॒ वाजा॑यासु॒र्या॑य हिन्विरे॒ के अ॒प्सु स्वासू॒र्वरा॑सु॒ पौंस्ये॑ ॥
स्वर सहित पद पाठके । ते । नरः॑ । इ॒न्द्र॒ । ये । ते॒ । इष॒े । ये । ते॒ । सु॒म्नम् । स॒ऽध॒न्य॑म् । इय॑क्षान् । के । ते॒ । वाजा॑य । अ॒सु॒र्या॑य । हि॒न्वि॒रे॒ । के । अ॒प्ऽसु । स्वासु॑ । उ॒र्वरा॑सु । पौंस्ये॑ ॥
स्वर रहित मन्त्र
के ते नर इन्द्र ये त इषे ये ते सुम्नं सधन्य१मियक्षान् । के ते वाजायासुर्याय हिन्विरे के अप्सु स्वासूर्वरासु पौंस्ये ॥
स्वर रहित पद पाठके । ते । नरः । इन्द्र । ये । ते । इषे । ये । ते । सुम्नम् । सऽधन्यम् । इयक्षान् । के । ते । वाजाय । असुर्याय । हिन्विरे । के । अप्ऽसु । स्वासु । उर्वरासु । पौंस्ये ॥ १०.५०.३
ऋग्वेद - मण्डल » 10; सूक्त » 50; मन्त्र » 3
अष्टक » 8; अध्याय » 1; वर्ग » 9; मन्त्र » 3
अष्टक » 8; अध्याय » 1; वर्ग » 9; मन्त्र » 3
पदार्थः -
(इन्द्र के ते नरः) हे परमात्मन् ! के हि ते नरो मुमुक्षवः सन्ति (ये ते-इषे) ये तव-एषणीयमोक्षाय (सुम्नं सधन्यम्-इयक्षान्) आत्मानं साधुम् “सुम्ने मा धत्तमिति साधौ मा धत्तमित्येवैतदाह” [श० १।८।३।२७] तथा सधन्यं सफलं सङ्गच्छन्ते “इयक्षति गतिकर्मा” [निघ० २।१४] के (ते वाजाय-असुर्याय हिन्विरे) के तव- अमृतान्नभोगाय-प्राणपोषकाय “अमृतोऽन्नं वै वाजः” [जै० २।१९३] आत्मानं प्रेरयन्ति (के स्वासु-उर्वरासु अप्सु पौंस्यै) के खलु स्वासु-उच्चासु कामनासु “आपो वै सर्वे कामाः” [श० ४।५।५।१५] आत्मत्वे च-आत्मानं प्रेरयन्ति ॥३॥