ऋग्वेद - मण्डल 10/ सूक्त 50/ मन्त्र 2
ऋषिः - इन्द्रो वैकुण्ठः
देवता - इन्द्रो वैकुण्ठः
छन्दः - स्वराडार्चीजगती
स्वरः - निषादः
सो चि॒न्नु सख्या॒ नर्य॑ इ॒नः स्तु॒तश्च॒र्कृत्य॒ इन्द्रो॒ माव॑ते॒ नरे॑ । विश्वा॑सु धू॒र्षु वा॑ज॒कृत्ये॑षु सत्पते वृ॒त्रे वा॒प्स्व१॒॑भि शू॑र मन्दसे ॥
स्वर सहित पद पाठसः । चि॒त् । नु । सख्या॑ । नर्यः॑ । इ॒नः । स्तु॒तः । च॒र्कृत्यः॑ । इन्द्रः॑ । माऽव॑ते । नरे॑ । विश्वा॑सु । धूः॒ऽसु । वा॒ज॒ऽकृत्ये॑षु । स॒त्ऽप॒ते॒ । वृ॒त्रे । वा॒ । अ॒प्ऽसु । अ॒भि । शू॒र॒ । म॒न्द॒से॒ ॥
स्वर रहित मन्त्र
सो चिन्नु सख्या नर्य इनः स्तुतश्चर्कृत्य इन्द्रो मावते नरे । विश्वासु धूर्षु वाजकृत्येषु सत्पते वृत्रे वाप्स्व१भि शूर मन्दसे ॥
स्वर रहित पद पाठसः । चित् । नु । सख्या । नर्यः । इनः । स्तुतः । चर्कृत्यः । इन्द्रः । माऽवते । नरे । विश्वासु । धूःऽसु । वाजऽकृत्येषु । सत्ऽपते । वृत्रे । वा । अप्ऽसु । अभि । शूर । मन्दसे ॥ १०.५०.२
ऋग्वेद - मण्डल » 10; सूक्त » 50; मन्त्र » 2
अष्टक » 8; अध्याय » 1; वर्ग » 9; मन्त्र » 2
अष्टक » 8; अध्याय » 1; वर्ग » 9; मन्त्र » 2
पदार्थः -
(सः-इन्द्रः-चित्-नु सख्या नर्यः-इनः) सः-‘उत्वं विसर्गस्य छान्दसः’ अवश्यं परमात्मा सखित्वेन-उपासनया नराणां मुमुक्षूणां हितकरः स्वामी (स्तुतः-चर्कृत्यः) स्तोतव्यः पुनः पुनर्भृशं वा सत्करणीयः (मावते नरे) मादृशाय मुमुक्षवेऽस्ति (विश्वासु धूःसु) सर्वासु धारणासु धारणीयासु वृत्तिषु वा (वाजकृत्येषु) बलकार्येषु (सत्पते शूर) सतां पालक ! परमात्मन् ! शूर ज्ञानवन् ! (वृत्रे वा अप्सु-अभिमन्दसे) पापिजनेषु-आप्तजनेषु च-अभिस्तुतिं प्राप्नोषि ॥२॥