ऋग्वेद - मण्डल 10/ सूक्त 52/ मन्त्र 1
विश्वे॑ देवाः शा॒स्तन॑ मा॒ यथे॒ह होता॑ वृ॒तो म॒नवै॒ यन्नि॒षद्य॑ । प्र मे॑ ब्रूत भाग॒धेयं॒ यथा॑ वो॒ येन॑ प॒था ह॒व्यमा वो॒ वहा॑नि ॥
स्वर सहित पद पाठविश्वे॑ । दे॒वाः॒ । शा॒स्तन॑ । मा॒ । यथा॑ । इ॒ह । होता॑ । वृ॒तः । म॒नवै॑ । यत् । नि॒ऽसद्य॑ । प्र । मे॒ । ब्रू॒त॒ । भा॒ग॒ऽधेय॑म् । यथा॑ । वः॒ । येन॑ । प॒था । ह॒व्यम् । आ । वः॒ । वहा॑नि ॥
स्वर रहित मन्त्र
विश्वे देवाः शास्तन मा यथेह होता वृतो मनवै यन्निषद्य । प्र मे ब्रूत भागधेयं यथा वो येन पथा हव्यमा वो वहानि ॥
स्वर रहित पद पाठविश्वे । देवाः । शास्तन । मा । यथा । इह । होता । वृतः । मनवै । यत् । निऽसद्य । प्र । मे । ब्रूत । भागऽधेयम् । यथा । वः । येन । पथा । हव्यम् । आ । वः । वहानि ॥ १०.५२.१
ऋग्वेद - मण्डल » 10; सूक्त » 52; मन्त्र » 1
अष्टक » 8; अध्याय » 1; वर्ग » 12; मन्त्र » 1
अष्टक » 8; अध्याय » 1; वर्ग » 12; मन्त्र » 1
विषयः - अत्र सूक्ते ‘विश्वेदेवाः’ स्वसम्बन्धिनो वृद्धजना विद्वांसश्च गृह्यन्ते। कठिनं ब्रह्मचर्यव्रतं समाप्य गृहस्थो भूत्वा तेषां कल्याणार्थं सेवां कुर्यात्, ज्ञानं च तेभ्यो गृहस्थचालनस्य ज्ञानं गृह्णीयादित्यादयो विषयाः सन्ति।
पदार्थः -
(विश्वे देवाः-मा शास्तन) हे मम सम्बन्धिनो वृद्धा मान्या जनाः “मनुष्या वै विश्वेदेवाः” [काठ० १९।१२] अहं भवद्वंशे जन्म प्राप्य सेवायोग्यो जातः-अतो मामादिशत (यथा-इह होता वृतः) येन हेतुनाऽत्र वंशे गृहस्थयज्ञस्य चालने होतृरूपेणाऽहं युष्माभिः स्वीकृतः (यत्-निषद्य मनवै) युष्माकं मध्ये स्थित्वा यदहमभिप्रायं जानीयाम् (यथा वः-भागधेयं मे प्रब्रूत) युष्माभिः ‘विभक्तिव्यत्ययः’ यथा निश्चितं ममयोग्यतारूपं ज्ञानभागं यदस्ति मह्यं तत् प्रवदत (येन पथा वः हव्यम्-आवहानि) येन च मार्गेण प्रकारेण युष्मभ्यं ग्राह्यं द्रव्यमानयामि ॥१॥