ऋग्वेद - मण्डल 10/ सूक्त 52/ मन्त्र 2
अ॒हं होता॒ न्य॑सीदं॒ यजी॑या॒न्विश्वे॑ दे॒वा म॒रुतो॑ मा जुनन्ति । अह॑रहरश्वि॒नाध्व॑र्यवं वां ब्र॒ह्मा स॒मिद्भ॑वति॒ साहु॑तिर्वाम् ॥
स्वर सहित पद पाठअ॒हम् । होता॑ । नि । अ॒सी॒द॒म् । यजी॑यान् । विश्वे॑ । दे॒वाः॒ । म॒रुतः॑ । मा॒ । जु॒न॒न्ति॒ । अहः॑ऽअहः । अ॒श्वि॒ना॒ । आध्व॑र्यवम् । वा॒म् । ब्र॒ह्मा । स॒म्ऽइत् । भ॒व॒ति॒ । सा । आऽहु॑तिः । वा॒म् ॥
स्वर रहित मन्त्र
अहं होता न्यसीदं यजीयान्विश्वे देवा मरुतो मा जुनन्ति । अहरहरश्विनाध्वर्यवं वां ब्रह्मा समिद्भवति साहुतिर्वाम् ॥
स्वर रहित पद पाठअहम् । होता । नि । असीदम् । यजीयान् । विश्वे । देवाः । मरुतः । मा । जुनन्ति । अहःऽअहः । अश्विना । आध्वर्यवम् । वाम् । ब्रह्मा । सम्ऽइत् । भवति । सा । आऽहुतिः । वाम् ॥ १०.५२.२
ऋग्वेद - मण्डल » 10; सूक्त » 52; मन्त्र » 2
अष्टक » 8; अध्याय » 1; वर्ग » 12; मन्त्र » 2
अष्टक » 8; अध्याय » 1; वर्ग » 12; मन्त्र » 2
पदार्थः -
(अहं यजीयान् होता न्यसीदम्) अहमतिशयेन सङ्गतिकर्त्ता ज्ञानभागस्यादाता निषीदामि (विश्वेदेवाः मरुतः-मा जुनन्ति) जनाः ऋत्विजो विद्वांसः “मरुतः ऋत्विङ्नाम” [निघ० ३।१८] मां प्रेरयन्ति (अश्विना वाम्-आध्वर्यवम्-अहः-अहः-भवति) हे-अध्याकोपदेशकौ ! “अश्विनौ-अध्यापकोपदेशकौ” [ऋ० ५।७८ दयानन्दः] युवयोः-ज्ञानयज्ञप्रापणं दिनं दिनं प्रतिदिनं भवेत् (वां ब्रह्मा समित्-सा-आहुतिः) युवयोः शिष्यश्च ब्रह्मा चतुर्वेदवेत्ता भवेत् तथा सम्यग्ज्ञानेन प्रकाशिता सा ज्ञानाहुतिर्भवेत् ॥२॥