Loading...
ऋग्वेद मण्डल - 10 के सूक्त 52 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 52/ मन्त्र 4
    ऋषिः - अग्निः सौचीकः देवता - देवाः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    मां दे॒वा द॑धिरे हव्य॒वाह॒मप॑म्लुक्तं ब॒हु कृ॒च्छ्रा चर॑न्तम् । अ॒ग्निर्वि॒द्वान्य॒ज्ञं न॑: कल्पयाति॒ पञ्च॑यामं त्रि॒वृतं॑ स॒प्तत॑न्तुम् ॥

    स्वर सहित पद पाठ

    माम् । दे॒वाः । द॒धि॒रे॒ । ह॒व्य॒ऽवाह॑म् । अप॑ऽम्लुक्तम् । ब॒हु । कृ॒च्छ्रा । चर॑न्तम् । अ॒ग्निः । वि॒द्वान् । य॒ज्ञम् । नः॒ । क॒ल्प॒या॒ति॒ । पञ्च॑ऽयामम् । त्रि॒ऽवृत॑म् । स॒प्तऽत॑न्तुम् ॥


    स्वर रहित मन्त्र

    मां देवा दधिरे हव्यवाहमपम्लुक्तं बहु कृच्छ्रा चरन्तम् । अग्निर्विद्वान्यज्ञं न: कल्पयाति पञ्चयामं त्रिवृतं सप्ततन्तुम् ॥

    स्वर रहित पद पाठ

    माम् । देवाः । दधिरे । हव्यऽवाहम् । अपऽम्लुक्तम् । बहु । कृच्छ्रा । चरन्तम् । अग्निः । विद्वान् । यज्ञम् । नः । कल्पयाति । पञ्चऽयामम् । त्रिऽवृतम् । सप्तऽतन्तुम् ॥ १०.५२.४

    ऋग्वेद - मण्डल » 10; सूक्त » 52; मन्त्र » 4
    अष्टक » 8; अध्याय » 1; वर्ग » 12; मन्त्र » 4

    पदार्थः -
    (हव्यवाहम्-अपम्लुक्तं बहु कृच्छ्रा चरन्तं माम्) ग्राह्यज्ञानस्य वहनकर्त्तारं तथा ज्ञानादपगतं ज्ञानरहितम् “अप् पूर्वात् ‘म्लुचु गतौ” [भ्वादिः] तत्र क्तः ककारस्य मकारश्छान्दसः” बहूनि कृच्छ्राणि ब्रह्मचर्यव्रतानि खल्वाचरन्तं माम् (देवाः-दधिरे) विद्वांसो धारयन्ति स्वीकुर्वन्ति (अग्निः-विद्वान्) एष आत्मा विद्वान् सन् (नः) अस्माकम्-अस्मभ्यं वा (पञ्चयामं त्रिवृतं सप्ततन्तुं यज्ञं कल्पयाति) पञ्चमार्गं पञ्चगतिकं वा पञ्चज्ञानेन्द्रियैः सिद्धं मनसा वाचा कर्मणा च वृतं चरितार्थं सप्ततन्तुं सप्तछन्दोभिर्युक्तं ज्ञानयज्ञं समर्थयति-समर्थयिष्यति ॥४॥

    इस भाष्य को एडिट करें
    Top