ऋग्वेद - मण्डल 10/ सूक्त 55/ मन्त्र 8
ऋषिः - वृहदुक्थो वामदेव्यः
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
यु॒जा कर्मा॑णि ज॒नय॑न्वि॒श्वौजा॑ अशस्ति॒हा वि॒श्वम॑नास्तुरा॒षाट् । पी॒त्वी सोम॑स्य दि॒व आ वृ॑धा॒नः शूरो॒ निर्यु॒धाध॑म॒द्दस्यू॑न् ॥
स्वर सहित पद पाठयु॒जा । कर्मा॑णि । ज॒नय॑न् । वि॒श्वाऽओ॑जाः । अ॒श॒स्ति॒ऽहा । वि॒श्वऽम॑नाः । तु॒रा॒षाट् । पी॒त्वी । सोम॑स्य । दि॒वः । आ । वृ॒धा॒नः । शूरः॑ । निः । यु॒धा । अ॒ध॒म॒त् । दस्यू॑न् ॥
स्वर रहित मन्त्र
युजा कर्माणि जनयन्विश्वौजा अशस्तिहा विश्वमनास्तुराषाट् । पीत्वी सोमस्य दिव आ वृधानः शूरो निर्युधाधमद्दस्यून् ॥
स्वर रहित पद पाठयुजा । कर्माणि । जनयन् । विश्वाऽओजाः । अशस्तिऽहा । विश्वऽमनाः । तुराषाट् । पीत्वी । सोमस्य । दिवः । आ । वृधानः । शूरः । निः । युधा । अधमत् । दस्यून् ॥ १०.५५.८
ऋग्वेद - मण्डल » 10; सूक्त » 55; मन्त्र » 8
अष्टक » 8; अध्याय » 1; वर्ग » 17; मन्त्र » 3
अष्टक » 8; अध्याय » 1; वर्ग » 17; मन्त्र » 3
पदार्थः -
(विश्वौजाः) समस्त बलस्वामी (विश्वमनाः) समस्तमननीयज्ञानवान् सर्वज्ञः (अशस्तिहा) अज्ञानपापनाशकः (तुराषाट्) शीघ्रमभिभविता (युजा कर्माणि जनयन्) योगेन ध्यानयोगेनोपासकेषु खल्वादिपरमर्षिषु वैदिककर्माणि कारयन् (सोमस्य पीत्वी) उपासनारसं पीत्वा स्वीकृस्य “स्नात्व्यादयश्च” [अष्टा० ७।१।४९] (दिवः-आवृधानः) ज्ञानप्रकाशान् समन्ताद् वर्धयमानः (शूरः) शूर इव यद्वा ज्ञानप्रेरकः “शूरः शवतेर्गतिकर्मणः” [निरु० ४।१३] (युधा) ज्ञानेन ज्ञानास्त्रेण वा “युध्यति गतिकर्मा” [निघ० २।१४] (दस्यून् निर्-अधमत्) सद्भावानामुपक्षयकर्तॄन् कामादिदोषान् निर्ममयति नितान्तं नाशयति वा “धमति गतिकर्मा” [निघ० २।१४] “धमति वधकर्मा” [निघ० २।१९] ॥८॥