ऋग्वेद - मण्डल 10/ सूक्त 57/ मन्त्र 6
ऋषिः - बन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुश्च गौपयाना लौपयाना वा
देवता - विश्वेदेवा:
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
व॒यं सो॑म व्र॒ते तव॒ मन॑स्त॒नूषु॒ बिभ्र॑तः । प्र॒जाव॑न्तः सचेमहि ॥
स्वर सहित पद पाठव॒यम् । सो॒म॒ । व्र॒ते । तव॑ । मनः॑ । त॒नूषु॑ । बिभ्र॑तः । प्र॒जाऽव॑न्तः । स॒चे॒म॒हि॒ ॥
स्वर रहित मन्त्र
वयं सोम व्रते तव मनस्तनूषु बिभ्रतः । प्रजावन्तः सचेमहि ॥
स्वर रहित पद पाठवयम् । सोम । व्रते । तव । मनः । तनूषु । बिभ्रतः । प्रजाऽवन्तः । सचेमहि ॥ १०.५७.६
ऋग्वेद - मण्डल » 10; सूक्त » 57; मन्त्र » 6
अष्टक » 8; अध्याय » 1; वर्ग » 19; मन्त्र » 6
अष्टक » 8; अध्याय » 1; वर्ग » 19; मन्त्र » 6
पदार्थः -
(सोम) हे शान्तस्वरूप परमात्मन् ! (वयं तव व्रते) वयं तव नियमे-आदेशे वेदशासने वर्तमानाः (तनूषु मनः बिभ्रतः) इन्द्रियेषु मनो धारयन्तः, तानि मनोऽनुकूले चालयन्तः (प्रजावन्तः सचेमहि) प्रशस्तेन्द्रियवन्तः “इन्द्रियं प्रजाः” [काठ० २७।२] त्वा सेवेमहि उपास्महे ॥६॥