ऋग्वेद - मण्डल 10/ सूक्त 6/ मन्त्र 1
अ॒यं स यस्य॒ शर्म॒न्नवो॑भिर॒ग्नेरेध॑ते जरि॒ताभिष्टौ॑ । ज्येष्ठे॑भि॒र्यो भा॒नुभि॑ॠषू॒णां प॒र्येति॒ परि॑वीतो वि॒भावा॑ ॥
स्वर सहित पद पाठअ॒यम् । सः । यस्य॑ । शर्म॑न् । अवः॑ऽभिः । अ॒ग्नेः । एध॑ते । ज॒रि॒ता । अ॒भिष्टौ॑ । ज्येष्ठे॑भिः । यः । भा॒नुऽभिः॑ । ऋ॒षू॒णाम् । प॒रि॒ऽएति॑ । परि॑ऽवीतः । वि॒भाऽवा॑ ॥
स्वर रहित मन्त्र
अयं स यस्य शर्मन्नवोभिरग्नेरेधते जरिताभिष्टौ । ज्येष्ठेभिर्यो भानुभिॠषूणां पर्येति परिवीतो विभावा ॥
स्वर रहित पद पाठअयम् । सः । यस्य । शर्मन् । अवःऽभिः । अग्नेः । एधते । जरिता । अभिष्टौ । ज्येष्ठेभिः । यः । भानुऽभिः । ऋषूणाम् । परिऽएति । परिऽवीतः । विभाऽवा ॥ १०.६.१
ऋग्वेद - मण्डल » 10; सूक्त » 6; मन्त्र » 1
अष्टक » 7; अध्याय » 6; वर्ग » 1; मन्त्र » 1
अष्टक » 7; अध्याय » 6; वर्ग » 1; मन्त्र » 1
विषयः - पूर्ववत्।
पदार्थः -
(यस्य-अग्नेः-शर्मन्-अवोभिः) यस्य ह्यग्ने परमात्मनः शरणे-उपासने सति विविधरक्षणप्रकारैः (जरिता) स्तुतिकर्त्ता जनः “जरिता स्तोतृनाम” [निघ० ३।१६] (अभिष्टौ) निजाभिकाङ्क्षाप्राप्तौ सत्याम् (एधते) समृद्धो भवति (सः-अयम्) सोऽयं परमात्माऽस्ति (यः) यश्च (ज्येष्ठेभिः-भानुभिः) श्रेष्ठैर्निर्भ्रान्तैर्ज्ञानप्रकाशैः “भानुभिः-विद्याप्रकाशैः” [यजु० १२।३२ दयानन्दः] (परिवीतः) परिपूर्णः (विभावा) विशिष्टप्रकाशवान् (ऋषूणां पर्येति) ऋषून्-ऋषीन्-अग्न्यादीन् परमर्षीन् “ऋषूणां मन्त्रार्थविदां व्यत्ययेन-इकारस्थान उत्वं षष्ठी च [ऋ० १।२५।१ दयानन्दः] सर्वभावेन प्राप्नोति ॥१॥