ऋग्वेद - मण्डल 10/ सूक्त 6/ मन्त्र 2
यो भा॒नुभि॑र्वि॒भावा॑ वि॒भात्य॒ग्निर्दे॒वेभि॑ॠ॒तावाज॑स्रः । आ यो वि॒वाय॑ स॒ख्या सखि॒भ्योऽप॑रिह्वृतो॒ अत्यो॒ न सप्ति॑: ॥
स्वर सहित पद पाठयः । भा॒नुऽभिः॑ । वि॒भाऽवा॑ । वि॒ऽभाति॑ । अ॒ग्निः । दे॒वेभिः॑ । ऋ॒तऽवा॑ । अज॑स्रः । आ । यः । वि॒वाय॑ । स॒ख्या । सखि॑ऽभ्यः । प॒रि॒ऽह्वृतः॑ । अत्यः॑ । न । सप्तिः॑ ॥
स्वर रहित मन्त्र
यो भानुभिर्विभावा विभात्यग्निर्देवेभिॠतावाजस्रः । आ यो विवाय सख्या सखिभ्योऽपरिह्वृतो अत्यो न सप्ति: ॥
स्वर रहित पद पाठयः । भानुऽभिः । विभाऽवा । विऽभाति । अग्निः । देवेभिः । ऋतऽवा । अजस्रः । आ । यः । विवाय । सख्या । सखिऽभ्यः । परिऽह्वृतः । अत्यः । न । सप्तिः ॥ १०.६.२
ऋग्वेद - मण्डल » 10; सूक्त » 6; मन्त्र » 2
अष्टक » 7; अध्याय » 6; वर्ग » 1; मन्त्र » 2
अष्टक » 7; अध्याय » 6; वर्ग » 1; मन्त्र » 2
पदार्थः -
(यः-अग्निः-विभावा) यः परमात्मा सूर्यो वा विशिष्टप्रकाशमानः (भानुभिः-देवेभिः-विभाति) स्वप्रकाशैर्विशिष्टं प्रकाशते तथा सूर्योऽन्यान् लोकांश्च प्रकाशयति (ऋतावा) सत्यनियमवान् (अजस्रः) अनुपक्षीणः-अबाध्यः-एकरसः (यः सखिभ्यः सख्या-आविवाय) यः परमात्मा मुमुक्षुजीवात्मभ्यः समानख्यानेन “द्वा सुपर्णा सयुजा सखाया” [ऋ० १।१६४।२०] उक्तत्वात्, तथा द्युस्थानकेभ्यश्च समानस्थानभावेन विशिष्टं प्राप्नोति (अपरिह्वृतः-न अत्यः सप्तिः) अकुटिलः सरलगतिकः सततगमनशीलोऽश्व इव ॥२॥