Loading...
ऋग्वेद मण्डल - 10 के सूक्त 6 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 6/ मन्त्र 3
    ऋषिः - त्रितः देवता - अग्निः छन्दः - निचृत्पङ्क्ति स्वरः - पञ्चमः

    ईशे॒ यो विश्व॑स्या दे॒ववी॑ते॒रीशे॑ वि॒श्वायु॑रु॒षसो॒ व्यु॑ष्टौ । आ यस्मि॑न्म॒ना ह॒वींष्य॒ग्नावरि॑ष्टरथः स्क॒भ्नाति॑ शू॒षैः ॥

    स्वर सहित पद पाठ

    ईशे॑ । यः । विश्व॑स्याः । दे॒वऽवी॑तेः । ईशे॑ । वि॒श्वऽआ॑युः । उ॒षसः॑ । विऽउ॑ष्टौ । आ । यस्मि॑न् । म॒ना । ह॒वींषि॑ । अ॒ग्नौ । अरि॑ष्टऽरथः । स्क॒भ्नाति॑ । शू॒षैः ॥


    स्वर रहित मन्त्र

    ईशे यो विश्वस्या देववीतेरीशे विश्वायुरुषसो व्युष्टौ । आ यस्मिन्मना हवींष्यग्नावरिष्टरथः स्कभ्नाति शूषैः ॥

    स्वर रहित पद पाठ

    ईशे । यः । विश्वस्याः । देवऽवीतेः । ईशे । विश्वऽआयुः । उषसः । विऽउष्टौ । आ । यस्मिन् । मना । हवींषि । अग्नौ । अरिष्टऽरथः । स्कभ्नाति । शूषैः ॥ १०.६.३

    ऋग्वेद - मण्डल » 10; सूक्त » 6; मन्त्र » 3
    अष्टक » 7; अध्याय » 6; वर्ग » 1; मन्त्र » 3

    पदार्थः -
    (यः-विश्वस्याः-देववीतेः-ईशे) योऽग्निरग्रणायकः परमात्मा सकलाया दिव्यभोगप्राप्तेः “देववीतये दिव्यानां भोगानां प्राप्तये” [यजु० १।२२ दयानन्दः] ईष्टे स्वामित्वं करोति-स्वामी खल्वस्ति (विश्वायुः-व्युष्टौ-उषसः-ईशे) विश्वं पूर्णमायुर्यस्मात् सः परमात्मा “विश्वमायुर्यस्मात् सः” [यजु० १।२२ दयानन्दः] तथा बुद्धेर्विकासे च स परमात्मा स्वामी खल्वस्ति (यस्मिन्-अग्नौ) यस्मिन्नग्रणायके परमात्मनि (मना-हवींषि) मननीयानि स्तुतिप्रार्थनोपासनवचनानि देयानि समर्प्याणि समर्प्यन्ते सः (अरिष्टरथः) उपासकानामहिंसनीयरमणाधारः (शूषैः-आस्कभ्नाति) स्वकीयबलैः “शूषं बलनाम” [निघ० २।९] सकलं दिव्यं सुखं ज्ञानं जगच्च स्वाश्रये धारयति ॥३॥

    इस भाष्य को एडिट करें
    Top