Loading...
ऋग्वेद मण्डल - 10 के सूक्त 60 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 60/ मन्त्र 11
    ऋषिः - बन्ध्वादयो गौपायनाः देवता - सुबन्धोर्जीविताह्वानम् छन्दः - स्वराडार्च्यनुष्टुप् स्वरः - गान्धारः

    न्य१॒॑ग्वातोऽव॑ वाति॒ न्य॑क्तपति॒ सूर्य॑: । नी॒चीन॑म॒घ्न्या दु॑हे॒ न्य॑ग्भवतु ते॒ रप॑: ॥

    स्वर सहित पद पाठ

    न्य॑क् । वातः । अव॑ । वा॒ति॒ । न्य॑क् । त॒प॒ति॒ । सूर्यः॑ । नी॒चीन॑म् । अ॒घ्न्या । दु॒हे॒ । न्य॑क् । भ॒व॒तु॒ । ते॒ । रपः॑ ॥


    स्वर रहित मन्त्र

    न्य१ग्वातोऽव वाति न्यक्तपति सूर्य: । नीचीनमघ्न्या दुहे न्यग्भवतु ते रप: ॥

    स्वर रहित पद पाठ

    न्यक् । वातः । अव । वाति । न्यक् । तपति । सूर्यः । नीचीनम् । अघ्न्या । दुहे । न्यक् । भवतु । ते । रपः ॥ १०.६०.११

    ऋग्वेद - मण्डल » 10; सूक्त » 60; मन्त्र » 11
    अष्टक » 8; अध्याय » 1; वर्ग » 25; मन्त्र » 5

    पदार्थः -
    (वातः न्यक्-अववाति) वायुर्नीचैः पृथिव्यामधो वहति (सूर्यः-न्यक् तपति) सूर्यो नीचैः पृथिवीं तपति तापं प्रयच्छति (अघ्न्या नीचीनं दुहे) गौर्नीचैर्भूत्वा दुग्धं स्रवति (ते रपः-न्यक्-भवतु) हे कुमार ! तव मानसरोगो नीचैः शरीराद् बहिः निःसरतु ॥११॥

    इस भाष्य को एडिट करें
    Top